________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका। 541 त्रिकालेति / यदुक्ता यजिनेन्द्रमुखनिर्गता, त्रिपद्येव, विश्वानि जगन्ति, वबे स्वालिङ्गितान्यकरोत् , कैः ? त्रिकाल-त्रिलोक-त्रिशक्तित्रिसन्ध्य-त्रिवर्ग-त्रिदेव त्रिरत्नादिभावः तत्र त्रिकालं भूत-भवद्-भविष्यलक्षणम् , न हि जगति किमपि वस्तु एतादृशं समम्ति यन्नोक्तकालत्रयान्यतमेन सम्बद्धम् , त्रिलोकं स्वर्ग-मर्त्य-पाताललक्षणम्, यत् किमपि वस्तु यत्र कुत्रापि समस्ति स देशो लोकत्रयान्यतमान्तर्गत एव, त्रिशक्तित्वं प्रभुत्वोत्याह-वमन्त्र जत्वादिलक्षणं, तदन्यतमाकलितमेव विश्वं, यस्योक्तशक्त्यान्यतमानाकान्तत्वं तस्य सामर्थ्याभावादर्थक्रियाकारित्वलक्षणसत्त्वाभावे वस्तुत्वमेव न स्यादिति यस्य यत् किमपि सामर्थ्यं तदुक्तशक्त्यन्यतमान्तर्गतमेषितव्यमिति, अथवा सत्त्वानुरोधेनोत्पादशक्तिः स्थैर्यशक्तिर्विलयशक्तिरित्येवं त्रिशक्तिस्वरूपमुपादाय सर्ववस्तुव्यापकत्वमुपपादनीयम् , त्रिसन्ध्यं प्रातमध्याह्न सन्ध्याकाल लक्षगं तत्र 'प्रातः सन्ध्या सनक्षत्रा, सायं सन्ध्या सभास्करा०, इति वचनात् सन्ध्ययो रात्रिदिनो. भयसम्बन्धित्वमिति रात्रिसम्बन्धोऽप्यनेनोपलक्षितो भवति, तथा च य एकस्यामेव रात्रावु-पद्य विनष्टः सोऽपि निरुक्तकालान्यतमसम्बन्धी भवतीति तद्भावाकलितत्वं तस्य निर्वहति, त्रिवर्गत्वं धर्मा-ऽधर्म-कामलक्षणं, तदपि साक्षात् परम्परया वा सर्वमालिङ्गति, त्रिदेवत्वं ब्रह्म-विष्णु-महेशत्वं, तत्र ब्रह्मगः स्पजन्योत्पत्तिद्वारा, विष्णोः स्वजन्यपालनात्मकस्थितिद्वारा, महेशस्य च स्वजन्यविनाशद्वारा सर्ववस्तुव्यापकत्वम् अनन्तरश्लोके च त्रिपद्येव त्रिदेवस्वरूपा, तस्याश्च सर्ववस्तु व्यापकत्वं समस्त्येवेति भावितमिति पराभिमतब्रह्मादित्रिदेवस्य वस्तुभूतस्याभावेऽपि न क्षतिः, त्रिरत्न सम्यग्ज्ञान-सम्यग्दर्शन-सम्यकूचरित्रादिरूपम् , तत्र सम्यग्ज्ञान-सम्यग्दर्शनयोः समस्तविशेष-सामान्यावगाहिनोविषयतया सामान्यविशेषोभयात्मकाखिलवस्तुव्यापकत्वम् , आदिशब्दात् त्रिपुष्करादोनां ग्रहणम्, त्रित्वसंख्यावाचकत्रिशब्दघटिता यथा विपदी तथा त्रिकालादिशब्दा अपीति त्रित्वसंख्यावाचकत्रिशब्दघटितस्वरूपेण सर्वेषां त्रिकालादिशब्दानां त्रिपद्यभिन्नत्वमिति त्रिकालत्वादिस्वभावैर्विश्ववरण त्रिपद्या उत्पन्नं, तथाभूतत्रिपदोनायकः स एको जिनेन्द्रो मे गतिरित्यर्थः // 13 //