________________ 510 दवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / भवतीति सैव विध्यादिरूपेण व्यपदिश्यते, इति तद्व्यवहारा अप्युपपन्ना इति तादृशत्रिपदीप्रणेता स्तुत्यो जिनेन्द्र इत्याशयेनाह समुत्पत्ति-विध्वंस-नित्यस्वरूपा यदुत्था त्रिपद्येव लोके विधित्वम् / हरत्वं हरित्वं प्रपेदे स्वभावैः स एकः परात्मा गति, जिनेन्द्रः // 12 // समुत्पत्तीति / यदुत्था यजिनेन्द्रास्यप्रकटीभूता, त्रिपद्येव "उप्पेइ वा विगमेइ वा धुवेइ वा'' इत्येवंस्वरूपा पदत्रयसमाहारात्मिका, समुत्पत्ति-विध्वंसनित्यस्वरूपा समुत्पत्तिः-उत्पादः, विध्वंसः-विनाशः, नित्यत्वं ध्रौव्यं, तत्स्वरूपा, अर्थतः स्वरूपतश्च शब्दा-ऽर्थयोः कथञ्चित् तादात्म्यादर्थानामुत्पाद-व्यय-ध्रौव्यात्मकत्वात् तत्प्रतिपादकशब्दस्वरूपा त्रिपद्यपि तथा, यथा चार्थानां प्रत्येकं प्रतिक्षणमुत्पाद-व्यय-ध्रौव्यरूपत्वं, तदन्तरेण सत्त्वमेव न भवेत् , तथा त्रिपद्यपि, सा भव्येभ्यो ज्ञानादिरत्नत्रयाविर्भावकारणत्वेन, लोके जंगति, विधित्वं ब्रह्मत्वं, प्रपेदे, विभावपरिणतिविनाशकत्वेन हरत्वं शिवत्वं, प्रपेदे, नित्यस्वरूपेण मूलवस्तुस्वभावधर्माचलत्वेन हरित्वं विष्णुत्वं, प्रपेदे, इत्येतावता यदुक्तिस्त्रिदेवस्वरूपा स किमिति न त्रिदेवस्वरूपो भवेत् ! वचसा समं वक्तुः सम्बन्धानुरोधेन कञ्चित् तादात्म्यमपि, कथञ्चित्तादात्म्यस्य सर्वसम्बन्धव्यापकत्वादिति तथाभूतैः स्वभावैः स्वरूपैः कृत्वा, त्रिदेवत्वं जिनेन्द्रस्य सुप्रतिपदमिति स त्रिदेवस्वरूपो जिनेन्द्र एको मे गतिरित्यर्थः // 12 // त्रिसंख्यासम्पादितपरस्परविलक्षणानेकधर्मसम्बद्धानेकवस्तुव्यापनोपजातवैशिष्टयालिङ्गितत्रिपदीसम्बन्धेन भगवन्तं जिनेन्द्रं स्तौति त्रिकाल-त्रिलोक-त्रिशक्ति-त्रिसन्ध्य त्रिवर्ग-त्रिदेव-त्रिरत्नादिभावैः। यदुक्ता त्रिपद्येव विश्वानि वत्रे . . स एकः परात्मा गतिमें जिनेन्द्रः // 13 //