________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / 539 परगृहीतैर्महामोहकूपे प्रातः, न चैवमुपदिशति जिनेन्द्र इति तदुपदिष्टमार्गगतानां भव्यानां महामोहकूपे प्रपातो न भवति, योग-क्षेमकारित्वान्नाथः स जिनेन्द्रो मे गतिरित्यर्थः // 11 // ननु यदीश्वराधीना जगतामुत्पत्ति-स्थिति-प्रलया अलीकेन्द्रजालकल्पा एव तदा तत्कार्यमेदकल्पनोपकल्पितमेदभाजो ब्रह्म-विष्णु-महेशा अपीश्वरमूर्तयत्रयो न सन्त्येव वस्तुत इत्यापामरसिद्धोत्पादादिव्यवहारा ब्रह्मादिव्यवहाराश्च व्यवहतव्याभावान्मिथ्याभूताः स्युरिति चेत् ? न, यतो नैयायिकादिस्वीकृता सत्ता जातिः, सद् द्रव्यं, सन् गुणः, तत् कर्मेति प्रतीतिविषयस्तत्सम्बन्धश्च समवायो न व्यवस्थितिं लभेते, जैनाचार्यैः स्वस्वग्रन्थेषु युक्तिनिकुरम्बेण निराकृतत्वात् , अद्वितीयसच्चिदानन्दस्वरूपब्रह्मभिन्नाखिलवस्त्वनिर्वचनीयत्वलक्षणमिथ्यात्ववादिवेदान्तिपरिकल्पितपारमार्थिक व्यवहारिक प्रातोतिकसत्त्वैतभेदत्रयकलिता सत्ताप्यनिर्वचनीयतावदखण्डनयुक्तिखण्डिता दूरापसारितैव किन्तु "उप्पेइ वा विगमेइ वा धुवेइ वा” इति जिनेन्द्रवर्धमानस्वामिमुखोद्गतत्रिपदी प्रमाणकान्तश्रीमदुमास्वातिपरिभाविता-“उत्पाद-व्यय ध्रौव्ययुक्तं सत्" इति तत्त्वार्थसुत्रोपदर्शितोत्पाद-व्ययध्रौव्यात्मकत्वलक्षणा विश्वव्यापिनी सत्तैव 'सद् द्रव्यं, सन् गुणः' इत्यादिप्रतीतिविषयः, तत्स्वरूपसन्निविष्टाश्चोत्यादादयो न 'सर्वथा प्रागसतः सत्त्वमुत्पादः, एकान्तिकावस्थानं स्थितिः, उत्तरभावभूतपर्यायानात्मकोऽत्यन्तव्यतिरिक्ताभावस्वरूपो विनाशः' इत्येवं परपरिकल्पितलक्षणलक्षिताः, येन तेषामलीकत्वे तत्समूहात्मिकायाः सत्ताया अप्यलोकत्वं स्यात् , किन्तु द्रव्यात्मना प्राक् सतोऽसतश्च पर्यायात्मनेत्येवं सदसद्रूपस्य पर्यायात्मना सत्त्वमुत्पादः कथञ्चिदुत्पादपदव्यपदेश्यः, एवं कञ्चित् कालं प्रतिलक्षणमन्यान्यभावेऽपि द्रव्यात्मकाभिनवपर्यायावस्थानं स्थितिः कचिन स्थितिपदव्यपदेश्या, द्रव्यात्मना स्थितस्यैवोत्तर पर्यायात्मना भवनं विनाशः कथञ्चित् विलयपदव्यपदेश्यः, एषां चाबाधित्वात् तदात्मिका सत्ताऽप्यबाधिता, इति तद्वयवहारोऽपि सत्यः, तत्प्रतिपादिका च भगवन्मुख निर्गता त्रिपदी ज्ञातभावनोत्पादजनकत्वाद् विधिर्ब्रह्मा भवति, ज्ञातभावेन विध्वंसजनकत्वाद् हरो महादेवश्च भवति, ज्ञातभावेन स्थितिजनकत्वाद् हरिविष्णु च