________________ 538 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / तमेवेति; वा अथवा, यदीयं शिरोऽपि मस्त कमपि, गङ्गा सुरसरित्, न जगाहे नालिङ्गितवती, शिवस्य तु मूर्ध्नि गङ्गाऽवतिष्ठत एव; वा अथ च, यदीयम् उरो हृदयप्रदेश, लक्ष्मीः कमला, न जगाहे नावगाहितवती, पराभिमतदेवस्य तु हरेरुरःस्थले सदा तिष्ठत्येव कमला; इच्छाविमुक्तं इच्छयारागेण, विशेषेण-सर्वथा, मुक्तं-रहितं, सर्वथा निःस्पृहं यं जिनेन्द्र, शिवश्रीः मोक्षलक्ष्मीः परमानन्दलक्षणा, भेजे आलिलिङ्ग, स जिनेन्द्रो मम शरणमित्यर्थः // 10 // . ईश्वरो जगत उत्पादयिता पालयिता संहर्तेति परे मेनिरे, तन्न समीचीनम्-ईश्वरे जगत्कर्तृत्वस्य रत्नाकराद्याकरग्रन्थे विस्तरतो निराकृतत्वात् ; एवं च महेशप्रयत्नप्रयोज्यत्वं जगदुत्पत्ति-स्थिति-विनाशेषु वस्तुगत्या नास्त्येव, अथापि तादृशैरुत्पत्ति स्थिति-विनाशैरिन्द्र जालसमैः कुयुक्तिविभादिः प्राणिनां महामोहमये भवकूपे निक्षेपकत्वेन परैर्भावितो महादेवो नाथो न भवितुमर्हति, किन्त्वनैवम्भूतो जिनेन्द्र एव नाथोऽस्माकं गतिरिति स्तौति जगत्सम्भव-स्थेम-विध्वंसरूऐ रलीकेन्द्रजाल यो जीवलोकम् / महामोहकूपे निचिक्षेप नाथ ! स एक परात्मा गतिमें जिनेन्द्रः // 11 // जगत्सम्भवेति ! यः जिनेन्द्रः, जोवलोकं भव्यप्राणिसमूह, महामोहकूपे महामोहनीयाद्यष्टकर्मावटे, न निचिक्षेप न पातयामास, कैर्न निचिक्षेपेत्याकाङक्षायामाह-जगत्सम्भव-स्थेम-विध्वंसरूपैः जगतां संम्भवः-उत्पत्तिः, स्थमा-स्थिरत्वं, विध्वंस:-तैः, कथम्भूतैस्तैः ? अलीकेन्द्रजालैः अलोकानि च तानीन्द्रजालानि-अलीकेन्द्र जालानि तैः; अस्वतन्त्राः खलु प्राणिन ईश्वरप्रेरिताः स्वर्गे नरके मनुष्यगतौ तिर्यग्गतौ वोत्पद्यन्ते, कञ्चित् कालं तत्र स्थितिमनुभवन्ति, ततो विनश्यन्ति चेतीश्वरपरवशा एवैते यथा यथेश्वरश्चिकोर्षति तथा तथा भवन्ति जीवा इत्येवं प्ररूपिता जगदुत्पति-विनाशा अलीकशशविषाणादितुल्या एवेति तैरन्धश्रद्धा