________________ दिवाकरकृता किरणावलोकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / 537 विकारो न, तथा वक्त्रे न मुखे स्मितादिचेष्टालक्षणविकारो न, परदेवस्य पुनरेतत् सर्व कुचेष्टितम् ; स जिनेन्द्रो मम, गतिः शरणमित्यर्थः // 8 // अन्यदेवेभ्योऽन्यदपि वैशिष्टयनिबन्धनं महत्त्वं जिनेन्द्रे दर्शयति-- न पक्षी न सिंहो वृषो नापि चापं न रोष-प्रसादादिजन्मा विडम्बः / न निन्द्यैश्चरित्रैर्जने यस्य कम्पः स एकः परात्मा गतिर्मे जिनेन्द्रः // 9 // न पक्षीति / यस्य जिनेन्द्रस्य, वाहनार्थ, न पक्षी गरुडो न, न सिंहः केशरी न, वृषो न वृषभो न, कामिजनविमोहनार्थ, नापि चापं कुसुमधनु, परोत्त्रासनाथं शार्ङ्गधनुरादि वा न, रोष प्रसादादिजन्मा द्विजवधुविध्वंसनादिसमुत्थाक्रोशादिलक्षणदोष-गोपाङ्गनाक्रीडादिप्रभवप्रफुल्लितचित्ततादिल् क्षणप्रसादाऽऽदिपदग्राह्यहर्ष-शोक-मोहजन्म-मरणादिजन्मा, बिडम्बः न बिडम्बना यस्य नास्ति, निन्द्यैः लोकगहितः, चरित्रैः पूतनास्त्रीमारण-गोपीजनचीरहरणादिभिः, जने कम्पःन गात्राकुञ्चनादिलक्षणो न पराभिमतमहादेव-विष्णु-दुर्गादीनां तु नैवंविधस्वमिति तद्वैलक्षण्यनिबन्धनं महत्त्वं स्फुटम् , स एकः परात्मा जिनेन्द्रो मे मम, गतिः शरणमित्यर्थः // 9 // __ मोहै कविलसितवैषयिकानन्दजनकाङ्गनासम्बन्धभाजनपराभिमतदेवविलक्षणो मुक्त्यङ्गनालिङ्गनैकतानपर मानन्दस्वरूपनिमग्नो जिनेन्द्र एव परात्मेति स्तौति न गौरी न गङ्गा न लक्ष्मीर्यदीयं वपुर्वा शिरो वाप्युरो वा जगाहे / यमिच्छाविमुक्तं शिवश्रीस्तु भेजे स एकः परात्मा गतिर्मे जिनेन्द्रः // 10 // न गौरीति / यदीयं यजिनेन्द्रसम्बन्धि, वपुः शरीरं, गौरी पार्वती, न जगाहे नावगाह. करोति; पराभिमतदेवस्य तु शिवस्य वामाझं गौरीशरीरं, दक्षिणाझं स्वशरीरमित्येवं शरीरद्वयापन्नं शरीरमिति तच्छरीरं गौरीशरीरावगाहि