________________ 536 दिवाकरकृता किरणावलीकलिता विंशतितमी एकवर्धमानद्वात्रिंशिका / लोकस्य चतुर्दशरज्जुप्रमाणस्य, ईशः-स्वामी; शम्भुः शं-सुखं भवतीति यस्मादिति व्युत्पत्त्या सुखसाधनम् , अथवा शं-कल्याणं, भवते-प्राप्नोतीति शम्भुः, भूधातुः प्राप्त्यर्थे आत्मनेपदी वर्तते, यद्वा शं-शाश्वतसुखं, तत्र भवतीति “शं-सं-स्वयंवि-प्राद् भुवो डुः" (5.2.84.) इति डुः; तथा स्वयम्भूः स्वयम् भात्मना तथाभव्यत्वादिसामग्रीपरिपाकवशात, न तु परोपदेशादितो भवतीति; तथा चतुवक्त्र समवसरणावस्थायां देशनासमये चतुषु दिक्षु श्रोतृणां सुखावगतये चत्वारि वक्त्राण्यस्य भवन्तीति, एवं च विधि-ब्रह्म-लोकेश-शम्भु-स्वयम्भू चतुवक्त्र' इत्यादि मुख्यानां-प्रधानानाम, अभिधाना-नाम्नां, विधानं कारणं, यः, जगत्सर्गहेतुः जगतां-भव्यानां भवमार्गान्मोक्षमार्गस्य सर्जने-प्रदाने हेतुः, ऊचे उच्यते इत्यर्थः // 7 // - पराभिमतदेवेभ्यो जिनेन्द्रस्य वैशिष्टयं भावयतिन शूलं न चापं न चक्रादि हस्ते न हास्यं न लास्यं न गीतादि यस्य / न नेत्रे न गात्रे न वक्त्रे विकारः स एकः परात्मा गतिमे जिनेन्द्रः // 8 // न शूलमिति / यस्य जिनेन्द्रस्य, हस्ते करे, शूलं त्रिशूलं, न न विद्यते, परामिमतमहादेवस्य तु शत्रुवधाद्यर्थ हस्ते त्रिशूलमिति क्रोधाविष्टस्य कुतो महत्त्वम् ?; न चापं शाङ्ग धनुर्न, न चक्रं सुदर्शनाख्यं न, पराभिमतदेवस्य विष्णोशाप-चक्रे हस्ते शत्रुपरिभवार्थ विद्यते इति द्वेषाभिभूतस्य तस्य कुतो देवत्वम् ?, किन्तु चाप चक्रादिशून्यकरस्यात्यन्तद्वेषमुक्तस्य जिनेन्द्रस्यैव महादेवस्वमिति व्यज्यते, चक्रादि इत्यादिपदात् पिनाक-डमरुक-मण्डलुप्रभृति हस्ते नास्ति स जिनेन्द्रो महादेवः काम-क्रोधादिरहितः, तथा यस्य जिनेन्द्रस्य, न हास्य हसनं न, न लास्यं नृत्यं न, न गीतादि रासोत्सवादि न, 'राभिमतदेवस्य विष्ण्वादेरेतत् सर्व विद्यते रागादिप्रभवम्; तथा यस्य जिनेन्द्रस्य, नेत्रे नयने, भ्रविक्षेपादिलक्षणः, विकारो न विकृतिर्न, तथा गात्रे न शरीरे रोमाञ्चादिलक्षणो