________________ दिवाकरकृता किरणावलोकलिता एकविंशतितमी वर्धमानद्वात्रिशिका / 535 पुनः शिवः शिव-कल्याणं, तदात्मकन्वात् लोकानां कल्याणकारित्वाच्च, पुनः भूतनाथः भूतानां सर्वप्राणिनां योग-क्षेमकारित्वान्नाथः, एवंभूतो यो मतः स एक परात्मा जिनेन्द्रो मम, गतिः शरणम् // 6 // ब्रह्मप्रतिपादकप्रसिद्धानेकनामप्रतिपाद्यत्वेन ब्रह्माभेदै प्रतिपादयन् स्तौतिविधि-ब्रह्म-लोकेश-शम्भु-स्वयम्भू चतुर्वक्त्र-मुख्याभिधानां विधानम् / . . ध्रुवोऽथो य ऊचे जगत्सर्गहेतुः स एकः परात्मा गतिर्मे जिनेन्द्रः // 7 // विधीति / विधि-ब्रह्म-लोकेश-शम्भु स्वयम्भू चतुर्वक्त्रमुख्याभिधानां परमते-ब्रह्मा हि रजोगुणविशिष्टः सन् “विधत् विधाने" विधति-सृजति जगदिति विधिः, इष्टसाधनताप्रतिपादक -'कुर्यात्' इत्यादिलिङ्गादि[यात् प्रभृति]प्रतिषाद्यविधिरिष्टसाधनत्वं, तच्च जगत्कर्तरि ब्रह्मणि विद्यते, धर्म धर्मिणोश्च कथञ्चिदमेद इति. दृष्टयाऽपि ब्रह्मा विधिः; बृंहन्ति-वर्धन्ते चराचराणि भूतान्यत्रेति ब्रह्मा पुं-क्लोबलिङ्गः; भूरादीन् सप्तलोकानीष्टे इति-लोकेशः, शं-सुखं, तत्र भवतीति-शम्भुः , स्वयम्-आत्मना भवतीति स्वयम्भूः, एतापता कारणान्तरानपेक्षसत्ताकत्वमस्य प्रतिपादितम्; चतुर्षु दिक्षु वक्त्राणि मुखान्यस्येति-चतुर्वक्त्रः; लोकानामिष्टानिष्टादिकं चतुर्वेदद्वारा प्रतिपादक इति चत्वारो वेदा अस्य मुखमिति वा-चतुर्वक्त्रः; विधातृविरञ्च्यादीन्यन्यानि नामान्यपि सन्ति, तेभ्यः प्रसिद्धत्वाद् विधि-ब्रह्मादिनामानि मुख्यानोति विधि-ब्रह्मलोकेश-शम्भु-स्वयम्भू-चतुर्वक्त्रः' इति मुख्याभिधानां-प्रधानानां नाम्नां, विधान कारणम्, अभिधेये सति अभिधानं प्रवर्तत इति भवति अभिधेयोऽर्थोऽभिधानस्य कारणम् ; अथो पुनः, यः जगत्सर्गहेतुः विश्वोपत्तिकारणं; ध्रुवः सर्वदा स्थिरः, ऊचे अभिधीयते इति / स्वपक्षे तुर्किविशिष्टो जिनेन्द्रः ? विधि ब्रह्म लोकेशशम्भु-स्वयम्भू-चतुर्वक्त्रमुख्याभिधानां मुक्तिगमनयोग्येभ्यो जीवेभ्यो विधति-ज्ञान-दर्शन-चारित्रादिलब्धि करोतीति विधिः, भव्यानां ज्ञान. दर्शन-चारित्रादिलक्षणस्वतत्त्वं बृहयति वर्धयतीति ब्रह्मा, पुनः लोकेशः