________________ 534 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / शत्रुः दक्षमखध्वंसे यमस्य जितत्वात् , आकाशके मूर्धनि शेतेऽस्य स आकाशकेशः परसम्मतो महेशो व्यापकत्वात् त्रिभुवनं व्याप्यावतिष्ठत इत्यूप्रलोक एव तस्य मूर्दाभिषिक्तः, कपालो कपालमस्यास्तीति कपाली, मुण्डमाला गले धारयति भिक्षार्थ करे कपालं बिभ्रति वा, महेशः महां चासावीशों महेशः, महोदधिवद् रूढः, महाव्रती महाव्रतं-कापालिकलिङ्गः विद्यतेऽस्येति-महाव्रती, उमेशः उमायाःपार्वत्याः, ईशः-स्वामी, अष्टमूर्तिः अष्टौ मूर्तयो यस्य सोऽष्टमूर्तिः पृथिवीजल-तेजो-वाय्वाकाश-यजमान-सूर्य-चन्द्राख्याष्टमूर्तिमान् , शिवः शिव-कल्याण तद्धेतुत्वात् शिवः, शेते वसति प्रलये जगदस्मिन्निति वा "शीछापो ह्रस्वश्च वा" [उणा० 506] इति वः, भूतनाथः भूतानां-प्राणिनां नाथः-स्वामी प्रकृते वर्द्धमानस्वामी, पुरानङ्गकालारिः पुरा-क्षपकश्रण्यारूढसमये, अनङ्ग-कामः, स एव मलिनवैरित्वात् काल:-कृष्णः, तस्य शुक्लध्यानबलेन हन्तृत्वादरिः शत्रुः, पुन: आकाश:केशः आकाशश्चतुर्दशरज्ज्वात्मकपुरुषाकारो लोकाकाशः, तस्य, के-मूनि-सिद्धशिलायामुपरि योजनस्य षष्ठे भागे शेत इति, सिद्धानां लोकाग्रस्थितौ 'अलोए पडिहया सिद्धा लोगग्गपइट्ठिया" [अलोके प्रतिहताः सिद्धा लोकाग्रप्रतिष्टिताः] "तिलोयमत्थयत्था' [विलो मस्तकस्था] इत्याद्यागमवचनं मानम्, पुन: कपालो कं-ब्रह्मचर्य पालयतीति, पुनः महेशः महाँ चासावीशश्च परमैश्वर्यभोक्तृत्वात् , पुनः महाव्रती महद् व्रतमस्मिन्नस्तीति, पुनः उमेशः उमाया:-कीर्त्याः, केवलज्ञानदर्शनरूपायाः कान्त्या वा ईशः-स्वामी, पुनः अष्टमूर्तिः ज्ञानावरण-दर्शनावरणमोहनीयान्तराय-वेदनीया:ऽऽयुर्नाम-गोत्रकर्माष्टकक्षयप्रभवान्तकेवलज्ञानानन्तकेव-- लदर्शन--क्षायिकशुद्धसम्यक्चारित्रा-ऽनन्तसुख-वीर्या-ऽक्षयस्थित्यनन्तावगाह [अगुरुलघुता]लक्षण ष्टगुणरूपत्वादष्टमूर्तिः, उक्तं च "अनन्तं केवलज्ञानं ज्ञानावरणसंक्षयात् / अनन्तं दर्शन चापि दर्शनावरणक्षयात् // 11 // क्षायिके शुद्धसम्बतेव चारित्रे मोहनिग्रहात् / अनन्तसुख-वर्य च वेद्य- विघ्नक्षयक्रमात् // 12 // . आयुषः क्षीणभावत्वात् सिद्धानामक्षया स्थितिः / नाम-गोत्रक्षयादेवामूर्तानन्तावगाहता // 13 // " इति /