________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिशिका / 533 इति / केवलज्ञार-केवलदर्शनरूपायाः, श्रियः-शोभायाः पतिः-स्वामी, तत्सम्बोधने हे श्रोपते इति / ज्ञानावरणीयकर्मात्यन्तापगमसमुत्थं केवलज्ञानं विश्वविषयकमिति सम्बन्धमात्रव्यापकस्तादात्म्यसम्बन्धो भेदाभेदरूपो विषय-विषयिणोविश्वकेवलज्ञानयोरिति केवलज्ञान रूपो जिनेन्द्रोऽपीति, तत्सम्बोधन-हे विश्वरूप इति / न विद्यते देशतः कालतः स्वरूपतश्चान्तो यस्य सोऽनन्त इति, ज्ञानात्मना सर्व विषयलक्षणदेशव्यापित्वाद् देशपरिच्छेद्यत्वलक्षणो देशतोऽन्तो नास्ति, नत्पन्नस्य केवलज्ञान-केवलदर्शनात्मकोपयोगरूपस्य जिनेन्द्रस्योत्तरकालं सर्वदैवावस्थानाद् विनाशाभावेन कालपरिच्छेद्यत्वलक्षणः कालान्तो नास्तीति, स्वरूपतश्च द्रव्यरूपेण वर्तत एवेति स्वरूपत चानन्त इति, यद्वा-न विद्यते गुणानामन्तो यस्य सोऽनन्तः तत्सम्बुद्धौ-हे अनन्त इति / एवं सम्बोधितः सम्बोधनविषयीकृतो यः स एकः परात्मा जिनेन्द्रो मे गम गतिरित्यर्थः // 5 // विष्णुप्रतिपादकप्रसिद्धानेकनामप्रतिपाद्यतया विष्णुमा समममेदं प्रतिपाद्य शिवप्रतिपादकप्रसिद्धानेकनाममप्रतिपाद्यत्वेन शिवामेदेन * भगवन्तं जिनेन्द्रं वर्द्धमानं स्तौति पुरा-ऽनङ्ग-कालारिराकाशकेशः ___कपाली महेशो महाव्रत्युमेशः। मतो योऽष्टमूर्तिः शिवो भूतनाथः स एकः परात्मा गतिमै जिनेन्द्रः॥६॥ पुरेति / “यः पुराऽनङ्ग-कालाऽरिः, आकाशकेशः, कपाली, महेशः, महाव्रती, उमेशः, अष्टमूर्तिः, शिवः, भूतनाथः, मतः, स एकः परात्मा जिनेन्द्रो मे गतिः" इत्यन्वयः। अत्र पराभ्युपंगतः पुरा-ऽनङ्ग-कालारिः पुरश्चानङ्ग च कालच पुरानङ्गकालाः, पुरानङ्गकालानामरिः पुरानङ्गकालारिः, अत्र द्वन्द्वान्ते श्रयमाणस्यारिशब्दस्य प्रत्येकं पुरादिशब्देनाभिसम्बन्धात्-पुरारिः अनङ्गारिः कालारिः तत्र पुरस्य त्रिपुरासुरस्य, भरिः-शत्रुः, शम्भोराग्नेयबाणेन त्रिपुरस्य प्लुष्टत्वात; अनङ्गस्य-कन्दपस्य, अरिः-शत्रुः, शम्भोस्तृतीयनेत्रामिना कामस्य दग्धत्वात् कालस्य-यमस्य अरिः