________________ 532 दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / हषीकेश ! विष्णो ! जगन्नाथ ! जिष्णो! . मुकुन्दाऽच्युत ! श्रीपते ! विश्वरूप ! / अनन्तेति संबोधितो यो निराशैः . स एकः परात्मा गतिम जिनेन्द्रः॥५॥ हृषीकेशेति / “निराशैः, हृषीकेशेत्यादिशब्दसम्बोधितो यः स एकः परात्मा जिनेन्द्रो मे गतिः" इत्यन्धयः / निराशैः आशा-फलाभिलाषा तया विमुक्ताःनिराशाः, तैनिराशैः, फलकामनारहितैनिष्कामैभव्य जोवैः, यः हृषीकेश ! विष्णो ! इत्यादिसम्बोधनेन सम्बोधितः, सम्बोधनं नाम वस्तुरव्यवहितशब्दजन्य वोधाश्रयत्वेनेच्छा, तस्याः संबोधनप्रथमा विभक्त्यर्थभूतायाः संख्याया इव प्रकृत्यर्थे विशेषणतयैवान्वयः, विशेषणतावच्छेदकसम्बन्धश्च विषयत्वं, तथा च प्रकृते वक्तुः स्तुतिकर्तृसिद्धसेनादिवाकरोपस्थापितनिराशभव्यनिकुटम्बस्य अव्यवहितः पुरुषान्तरव्यवधानरहितः, अर्थात् साक्षादेव, उक्तस्तुत्यात्मकशब्दजन्यवोधाश्रयत्वेनेच्छा 'निरुक्तबोधाश्रयो हृषीकेशो भवतु' इत्याकारिका, तद्विषयहृषीकेश इत्यर्थः, एवं विष्णो ! इत्यादिसंबोधनान्तरेऽपि बोध्यम् / परमते-'हृषीकेश, विष्णु, जान्न थ, जिष्णु, मुकुन्द, अच्युत, श्रीपति, विश्वरूप' इति विष्णुनामानि प्रसिद्धानि स्वमते वर्धमानजिने चेत्थं घटना-हृषीकाणाम्-इन्द्रियाणाम् , ईम्-अर्थप्रकाशकत्वलक्षगां लक्ष्मी, श्यति-तनूकरोति खण्डयतीति हृषीकेशः, केवलज्ञानस्य सकललोकालोक. प्रकाशकस्योत्पत्तौ सत्यामिन्द्रियाणि भगवतोऽकिञ्चित्कराण्येव भवन्तीति, तत्सम्बोधने-हे हषाकेश इति / वेवेष्टि-ज्ञानात्मना लोकालोकं व्याप्नोतीति "विषेः कित्" [उणा० 769] इति किति णुकि-विष्णुर्व्यापकः, त-संबोधनम् हे विष्णो इति / जगताम्-अशेषभव्यसत्त्वानां योग-क्षेमकारित्वेन नाथः-स्वामी, तत्संबोधने हे जगन्नाथ इति / राग-द्वेषादीनन्तररातीन् जयतीत्येवंशीलो जिष्णुस्तत्सम्बुद्धौ हे जिष्णो इति / मोचयति पापादिति "मुचेः०" [उणा०२५०] इति डुकुन्दप्रत्यये-मुकुन्दः-पापविमुक्तिकर्ता, तस्यामन्त्रणं-हे मुकुन्द इति कुत्रापि कस्मादपि स्वस्वरूपतः, न च्यवते स्खलतीत्यच्युतोऽविनाशी, तत्सम्बोधन हे अच्युत !