________________ ANNA ANANAR दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिंशिका / 531 त्रिलोकीपरित्राणनिस्तन्द्रमुद्रः स एकः परात्मा गतिमें जिनेन्द्रः // 4 // न यो बाह्यसत्त्वेनेति / “यो बाह्यससत्त्वेन मैत्री न प्रपन्नः, यस्तमोभिन प्रणुन्नः, वा रजोभिर्योनो प्रणुन्नः, यस्त्रिलोकीपरित्राणनिस्तन्द्रमुद्रः, स एकः परात्मा जिनेन्द्रो मे गतिः” इत्यन्वयः / नैयायिकाद्यभिमत ईश्वरो विष्णुरुद्र-ब्रह्ममेदेन त्रिविधः, तत्र विष्णुः सत्त्वगुणसहकारेण अगद् रक्षति, सत्त्वगुणो लघुप्रकाशकस्वभावो मायाया न तु विष्णोरिति बहिरङ्ग एव सः, यदि च सुखजनमदृष्टं तदापि जीवस्य विष्णोरिति बाह्य एव, तत्सचिवतैव मैत्री तां प्रपन्नः-प्राप्तो विष्णु:; रुद्रश्च तमोगुण वोदितो जगत् संहरतीति, तमोभिः तमोगुणैर्गुरुवरणकस्वभावैः, जीवगतैर्वा संहरणजनकादृष्टः प्रेरितः, ब्रह्मा चोपष्टम्भकचलस्वभावैः, तत्तद्वस्तूपजनकादृष्टरूपैर्वा रजोगुणैः प्रेरितो जगत् सृजति, जिनेन्द्रस्तु तेभ्यो विलक्षणो बाह्यसत्त्वेन लोकव्यवहारोपयोगिलौकिकसत्त्वगुणेन अथवा सत्त्वम्-आत्मा, स एव बाह्यो बहिरात्मा "हेयोपादेयवैकल्यान्न यो वेत्ति हिताहितम् / निमग्नो विषयाक्षेषु बहिरात्मा स मूढधीः // 10 // " इति यः वचनोक्तलक्षणलक्षितः, तेन बाह्यसत्त्वेन मैत्री पुद्गलरागदशात्वं तदात्मस्वरूपतां. वा, न प्रपन्नो न प्राप्तः, तमोभिः अज्ञानान्धकारैः, न प्रणुन्नो न प्रेरितः, वा अथ च, रजोभिः राजसगुणैः, न प्रणुन्नः न प्रेरितः, एतादृशो जिनो भक्तानुग्रहकारित्वाभावादनुपास्य एव लोकैरित्यत आहत्रिलोकीपरित्राणनिस्तन्द्रमुद्रः त्रयाणां लोकानां समाहारः त्रिलोकी, तस्याः परित्राणे रक्षणे, निस्तन्द्रा आलस्यरहिता, मुद्रा-मूर्तिर्यस्य सः, यस्य भीतिजनकशस्त्राद्यनालिङ्गितहस्तादिपरिकलितध्यानैकनिमग्नाकारमूर्तिदर्शनमात्रेणैवाहमपीदृशोभवेयमिति शुभाशी:परिगता जनाः सन्मार्गासेवनतो नरकादिग तिपाततो विमुक्ता भवन्तीति, एतादृशो जिनेन्द्रः परात्मा मम गतिरित्यर्थः // 4 // . अनन्तर लोकेण विष्णु-शिव-विरञ्चिभेदोऽवधृतोऽपि नैकान्ततः, कथञ्चिदेकशब्दाभिलप्यत्वादिना तैरभेदोऽपि जिनेन्द्रस्येत्याशयेन पञ्चम-षष्ठ-सप्तम लोकः क्रमेण विष्णु-शिव-ब्रह्मा भिन्नत्वं प्रतिपादयन् जिनेन्द्रं भगवन्तं महावीरं स्तौति