________________ 530 दिवाकरकृता किरणविलीकलिता. विंशतितमी वर्धमानद्वात्रिशिका / कत्वम् , निद्रा दर्शनमोहनीयोदयात् स्वपनं हिताहितोपेक्षणीयप्राप्तिपरिहारोपेक्षाफलक ज्ञानविशेषाभावः, विषयाननुभवनमिति यावत्, न च जडे. अतिव्याप्तिः, तद्गतविषयाननुभवनस्य स्वतः सिद्धस्य दर्शनमोहनीयोदयप्रभवत्वाभावात् ; विरतिर्नामज्ञात्वाऽभ्युपेत्य प्राणिवधाद्यकरणम् , तस्या देशविरति-सर्वविरतिभेदेन द्वैविध्यम् . आद्या श्रावकादीनाम्, भन्त्या साध्वादीनाम् ; तदभावोऽविरतिः, विरत्यविरती चेतन. धर्मावेव, ज्ञात्वाऽभ्युपेत्येति विशेषणोपादानादेव विरतिलक्षणं जडे मा भूदतिप्रसक्तं, तदभावस्वरूपमविरतिलक्षणं तु जडेऽतिप्रसज्येत इत्यप्रत्याख्यानादिकषायो. दयात् त्रस-स्थावरादिप्राणवधनिवृत्त्यभावोऽविरतिः, जडे प्राणिवधनिवृत्तरप्रत्याख्यानादिकषायोदयप्रभवत्वाभावानातिप्रसङ्गः; अङ्गात् प्रभवतीति व्युत्पत्त्याऽङ्गभूःस्त्री-पुरुषादिगताऽवस्थाविशेषान्योऽन्यदर्शनालिङ्गादिनित: कामाभिलाषो न विच्छा. मात्रम: मुखाद्यवयविकारविशेषो हास्य, यद्दर्शनेनायं हसतीति व्यवहारो लोकानां, चन्द्रशोभा हसतोयमङ्गनामुखशोमेत्यादि व्यवहारोऽपि दृश्यते, इत्यतो हास्यमोहनीयोदयप्रभवत्वं तत्र विशेषणमिति नातिप्रसङ्गः, शोचतीति व्यवहारसिद्धं शोचनं. शोकः, नवीनपत्रादिकं दृष्ट्वा जीर्णपत्रादिकं स्वात्मानं शोचत्यहमीदृशः संवृत्त इत्य. चेतनेऽप्यपचरितं शोचनं समस्तीत्यतः शोकमोहनीयोदयाच्छोचनं शोकः, जडे तादृशशोचनाभावादतिप्रसङ्गाभावः, परानिष्टकरणाद्यनुकूलः क्रोधापरपर्यायो द्विष्टसाधनताज्ञानजन्यो द्वेषः, अनेकान्तानात्मकस्य वस्तुनोऽभावात् तद्विषयकमेकान्ताभिनिवेशशालिनां श्रद्धानं मिथ्यात्वम् , रागः-दार-धनादिविषयकः स्नेहः, रत्यरत्यन्तरायैः यो न सिषेवे सुखप्राप्तौ प्रफुल्लितहृदयत्वं रतिः, दुःखप्राप्तौ विषण्णहृदयत्वमरतिः; अन्तरायः यादृशकर्मोदयादभीष्टं दानादिकं नवाप्यते तादृशं कर्म, दानादिप्रतिबन्धकविशेष इति यावत्, स च दानान्तराय-लाभान्तराय-भोगान्तरायो. पभोगान्तराय-वीर्यान्तरायभेदात् पञ्चविधः, एतैरष्टादशदोर्यो न सिषेवे-न सेवितः, स एकः परमात्मा गतिः मे जिनेन्द्रः निरुताष्टादशदोषरहितो जिनेन्द्रः परात्मा मम गतिरित्यर्थः // 3 // सत्त्वादित्रिगुणविकाररहितत्व-सर्वप्राणिरक्षकत्वाभ्यां भगवन्तं महावीर स्तौतिन यो बाह्यसत्त्वेन मैत्री प्रपन्न स्तमोभिन नो वा रजोभिः प्रणुनः /