________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी वर्धमानद्वात्रिशिका / 529 रजस्तमोगुणत्रयात्मकप्रकृतिपरिणामभूतधर्माधर्म ज्ञानाज्ञान-वैराग्यावैराग्यैश्वर्यानैश्वर्याघष्टविधधर्बुद्धिगतैस्तद्भेदामहत : कलुषित आत्मा स्वतः कूटस्थनित्य एव बुद्धिसम्बन्धासम्बन्धप्रयुक्तबन्ध-मोक्षाकलितो न तु स्वतो बध्यते मुच्यते इत्येवं कापिला उपासते कपिल एव सर्गादावादिविद्वान् प्रादुर्बभूवेति मन्वानाः, स प्रकृत्या कर्मप्रकृत्या क्षीरनीरन्यायेनैकीभावापन्नया तत्तत्परिणामलक्षणसंसृत्यायुपाधितादात्म्याध्यासतस्तदुपाधिस्वरूपः, आत्मवृत्त्या-उपयोगात्मकस्वस्वरूपानुस्यूतपरमा - नन्दस्वभाव इति कृत्वोपाधिस्वभावोभयात्मकत्वेनोपाधिस्वभावो जिनेन्द्रः, अत्र य उपाधिः परसम्बन्धप्रयुक्तधर्मः स न स्वभाव इति विरोधोऽपेक्षाभेदेन परिहृत इति विरोधाभासः // 2 / / जुगुप्सा-भया-ज्ञान-निद्रा-ऽविरत्य ङ्गभू-हास्य शुग-द्वेष-मिथ्यात्व-रागैः / न यो रत्यरत्यन्तरायैः सिषेवे स एकः परात्मा गतिर्मे जिनेन्द्रः॥३॥ जुगुप्सेति / "जुगुप्सा-भया ऽज्ञान-निद्रा-ऽविरत्यङ्गभू-हास्य-शुग-द्वेषमिथ्यात्व-रागैः, रत्यरत्यन्तरायैर्यो न सिषेवे स एकः परात्मा गतिमें जिनेन्द्रः" इत्यन्वयः। स जिनेन्द्रो मे ‘मम, गतिः, स कः ? इत्याकाङ्क्षायामाह-जुगुप्साभया-ऽज्ञान-निद्रा-विरत्यङ्गभू-हास्य-शुगद्वेष-मिथ्यात्व-रागैः जुगुप्सानिन्दा, सा परविषयिणी स्वकृता ज्ञेयाः तस्या एव सम्बन्धाभावो जिनेन्द्रेऽभिमतः, तेन अज्ञैः-एकान्तवादिभिः, कृताया निन्दाया जिनेन्द्रे विषयतया सत्त्वेऽपि न क्षतिः, भयः भीतिः अयं मां मारयिष्यति ताडयिष्यतीत्यादितश्चित्तवैक्लव्यविशेषो न सम्भवत्येव जिनेन्द्रे, भवस्थावस्थायामपि घातिकर्मात्यन्तविगमेऽवशिष्टाघातिकर्मवशादवश्यम्भाविनो दुःखादेः स्वकृतकर्मजनितत्वस्यैवावलोकनात् , किन्तु परगताया भीतेरुत्पादकत्वम् , अज्ञानं न ज्ञानसामान्यभावः, स जडगत एव न. तु कस्मिन्नपि जीवे, तथा सत्युपयोगलक्षणभावे जीवत्वमेव न स्यात, भत एव निगोदजीवेऽपि किञ्चिदंशेऽनावृत्तं ज्ञानं स्वीक्रियते, किन्तु स्व-परानवबोध