________________ श दिवाकरकृता किरणावलीकलिता एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / 527. इदं भुजङ्गप्रयातं वृत्तम्, तल्लक्षणं च "चतुर्भिर्यकारैर्भुजङ्गप्रयातम्” इति अग्रेऽप्येवम् // 1 // प्रकारान्तरेण जिनेन्द्रं महावीर स्ततिशिवोऽथादिसङ्ख्योऽथ बुद्धः पुराणः पुमानप्यलक्ष्योऽप्यनेकोऽप्यथैकः / प्रकृत्याऽऽत्मवृत्याप्युपाधिस्वभावः स एकः परात्मा गतिमै जिनेन्द्रः // 2 // शिव इति / शिवः यं शिव इत्युपासते शैवाः सोऽनल्पभवभ्रमणादिमूलाष्टविधकर्म रहितत्वान्निरुपद्रवः शिवो जिनेन्द्रः, अथ पुनः आदिसङ्ख्यःयं जगतो जन्यमात्रस्य कर्तृत्वेन जगदादिमुपासते नैयायिकादयो जगज्जनकेश्वरवादिनः स आदिसङ्ख्यः स्वतीर्थप्रणेता जिनेन्द्रस्तीर्थादिसङ्ख्यः, जगज्जनकेश्वरविग्रहेषु ब्रह्मविष्णु-महेशेषु जगदुत्पत्तिकर्ता ब्रह्मा प्रथमसङ्ख्यः, जगस्थितिका विष्णुर्द्वितीयः जगत्संहारकर्ता शिवस्तृतीयः, स कथमादिसङ्ख्यः इति विरोधोऽप्यर्थकेनाथशब्देन प्रथमतः स्फुरति, स चानन्तरोपदर्शितव्याख्यानेन परिहृत इति विरोधाभासालङ्कारः एवमग्रेऽपि, अथ पुनः, बुद्धः यं क्षणिकसर्वज्ञो बुद्ध इति, सौत्रान्तिकादयश्चत्वारः सौगता उपासते अवगम्यते वस्तुतत्त्वमनेनेति बुद्धो ज्ञाततत्त्वो भवति जिनेन्द्रः सर्वज्ञत्वात्, पुराणः यं पितुरपि पिताऽतिप्राचीनत्वात् पितामहः पुराण इति पौराणिका उपासते स जिनेन्द्रः, आत्मस्वरूपद्रव्यात्मकस्य तस्यानादिकालवृत्तित्वेनातिप्राचीनत्वलक्षणपुराणत्वस्य सम्भवात्, अथशब्दस्यात्राप्यर्थकत्वे बुद्धोऽपि पुराण इति विरोधः, बुद्धः खलु बौद्धदर्शनप्रवत्तको न्यायादिदर्शनाभिमतस्थैर्यवादखण्डनप्रवणः, तत्तद्दर्शनकर्तृगौतम-कणाद कपिलादिभ्यो नूतनो मायादेवीसनः पुराणो न भवितुर्हतीत्यामुखे विरोधोऽवभासते, स चाभिहितव्याख्यानतः परिहत इति विरोधाभासालङ्कारः, पुमानपि अपिः पुनरर्थे “पुरुष एवेदं सर्व यद भूतं यच भाव्यम्" इत्यादिश्रुतिवचनाद् य पुरुष एव सर्वस्य कर्त्तत्येवमुपासते पुरुषकारणिकाः स सर्वान् सत्त्वान् धर्ममार्गोपदर्शनेनाधर्मप्रभवनरकाद्यवटपातात् पाति रक्षतीति पुमानित्येवंस्वरूपो जिनेन्द्रः, अलक्ष्योऽपि अपि पुनः अलक्ष्यः यं वाङ