________________ 526 दिवाकरकृता किरणावलीकलिता एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / कीर्तनरूपा स्तुतिः, स्वार्थसम्पत्तिमानेव पुरुषः परार्थसम्पत्तिकरणे समर्थो भवत्यभिसन्धानेन प्रथमचरणेनस्वार्थसम्पत्तिमत्त्वमुपदानन्तरं द्वितीयचरणेन परार्थसम्पत्तिरुपदर्शिता / पुनः किंभूतो जिनेन्द्रः ? त्रिलोकीशवन्द्यः त्रयाणां लोकानां समाहारः त्रिलोकी, तस्या ईशाः देवेन्द्र-भूमीन्द्र चमरेन्द्रादयः, तैर्वन्द्यः बन्दितुं योग्यः, पुनः कीदृशो जिनेन्द्रः 1 त्रिकालज्ञनेता त्रिकालं जानन्तीति त्रिकालज्ञाः, मतिश्रुताऽवधि-मनःपर्यायज्ञानिनः, तेषां नेता स्वामी, अत्र राग-द्वेषादीन् शत्रून् जितवन्त इति जिनाः, तेषु इन्द्र इति व्युत्पत्तिलभ्यार्थकजिनेन्द्रशब्देनापायापगमातिशयः प्रतीयते, अपायः ज्ञान-दर्शनात्मकोपयोगलक्षणात्मस्वरूपप्रतिबन्धकराग-द्वेषनिदानज्ञानावरणीयादिधातिकर्मचतुष्टयं, तदत्यन्तक्षय एव ज्ञान-दर्शनाविर्भावं इति केवलज्ञान-दर्शनोत्पत्त्याव्यवहितप्राक्काल एव वर्द्धमानस्वामिनोऽपायापगमातिशयोऽभिमत इति तस्य जिनेन्द्रशब्दतः प्रतीतिरेव युक्ता "सदा योगसात्म्यात् समुद्भूतसाम्यः” इति प्रथमचरणेन सिद्धतुल्यत्वप्रतीत्या सकलावरणक्षयो यथाऽर्थादवगम्यते तथा क्रमिक केवलज्ञान-केवलदर्शनाविच्छिन्नोनन्तधाराऽप्यवगम्यत इति / किञ्च, केवली भगवान् भवस्थावस्थायां चतुर्विधातिशयसम्पन्नः, तत्र ज्ञानातिशयस्तस्यापायापगमातिशयादुपजायत इत्यविगानेन प्रतीत, सिद्धतादृशावस्थस्य चापायापगमातिशयो न ज्ञानातिशयप्रयोजकः किन्तु तत्प्रयोज्य इति तदुपदर्शनमकिञ्चित्करम् , वस्तुतः "सदा योगसात्म्यात्" इत्यनेन ज्ञानातिशय एव प्रकटी. कृतो भवतीति “प्रभोत्पादित” इति तृतीय चरणेन वचनातिशयलाभः, तदा यदि प्रभापदं तीर्थकृन्नामकर्मसचिवकेवलज्ञानसमुद्भूतश्रुतपरं यदि वा "पुण्यप्रकाश:" इत्यस्य पुण्यस्य प्रकाशो यस्मादिति व्युत्पत्त्या श्रुतपरत्वं भवेत् , अन्यथा नाक्लेशतस्तल्लभ्यत्व तस्येति "त्रिलोकीशवन्द्यः” इत्यने पूजातिशयः प्रकटितः। यो हि यस्य नेता स तद्गुणोत्कृष्टगुगो भवतीति नियमतो मति श्रुता-ऽवधि- मनःपर्यायज्ञानिभ्यत्रिकालज्ञेभ्यस्तन्ने तुमहावीरस्य विशिष्टगुणशालित्व' "त्रिकालज्ञनेता" इत्यनेन प्रतीयते, किंतु व उजवत एव तथाभाव इति नावधारयितुं शक्यते, तीर्थकृत्वादिगुगयोगादपि तत्त्वस्य सम्भवादिति "त्रिकालज्ञनेता” इत्यनेन ज्ञानातिशयलाभ इत्यतो वरं "सदा योगासात्म्यात्' इत्यनेन ज्ञानातिशयंलामः, ततस्तस्व स्पष्ट प्रतीतेरिति /