SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / 525 श्रीवर्द्धमानस्य, वर्द्धमानत्वधर्मस्यान्येभ्यो जिनेन्द्रेभ्यो व्यवच्छेदकस्य भवस्थावस्थायामेव सद्भावात्, एवमपि न काचित् क्षतिः, त्रिविधं हि व्यवच्छेदकं विशेषमुपाधिरूपलक्षणं च, तत्र वर्तमानं सद् विशिष्टस्वरूपप्रविष्टमन्येभ्यो व्यावतिक विशेषणमुच्यते तदुच्च विशिष्टमभिधीयते, यच्च वर्तमानं सद् विशिष्टस्वरूपाप्रविष्टमेवान्येभ्या व्या वर्तकं तदुपाधिः कथ्यते, तद्वच्चोपहितमिति गीयते यच्चावर्त्तमानं स्वरूपाप्रविष्टमेवान्यतो व्योवर्तकं तदुपलक्षणभिति वर्ण्यते तद्व चोपललितमित्यभिधीयते, एवं च भवस्थतीर्थकृत्त्वाकलित केवलालिङ्गितरय जिनेन्द्रस्य वर्धमानस्य निष्कलस्वरूपपरमात्मत्वमुपलक्षणमेव व्यावकिमिति तदुपलक्षितस्य वर्तमानस्यान्यतो व्यावर्तनं समस्त्येवेति तदसाधारणगुणवर्णनलक्षणा तत्स्तुतिरुपपन्नैवेति / विशेष्यस्वरूपं निर्दिशति-जिनेन्द्र इति राग-द्वेषादीनन्तरातीन् जितवन्त इति जिनाः सामान्यकेवलिनोऽपि, तेषु इन्द्र इवेन्द्रः, तीर्थङ्करत्वलक्षणेश्वर्ययोगात्, स मे श्रवण-मनना-ऽभ्यसनेन तत्स्वरूपध्याननिमग्नस्य मम, गतिः गम्यते-प्राप्यते-बुध्यते ज्ञायते स्वरूपतत्त्वमनयेति गतिरिति व्युत्पत्त्या गतिध्येयस्य परात्मस्वरूपस्य ज्ञापकः प्रापकश्च; भवेदिति शेषः, इदं तुरीयचरणमग्रिमपद्येष्वपि समानमित्येतद्व्याख्यानेनैव व्याख्यातमववोद्धव्यम्, तच्छब्दोपाबन्धाक्षिप्त यच्छब्दाभिधेयं स क इत्याकाङ्क्षानिवर्तकमुपदर्शयति-सदा योगसात्म्यात् समुद्भूतसाम्यः सदा-सर्वस्मिन्नुत्तरकाले, योगानां ज्ञान-दर्शन-चारित्रादीनां क्षयिकानां,सात्म्यं तदात्म्यं तस्मात्, उद्भूतं प्रकटीभूतं साम्यं तुल्यत्वं यस्य स उद्भूतसाम्यः तुल्यत्वं सप्रतियोगिकं कस्यचित् केनचित् भवतीति प्रकृते सिद्धः समं तदवसेयम् , आगमे सर्वसिद्धानां तुल्यत्वप्रतिपादनात्, भगवानपि नियमतो ज्ञान-दर्शन-चारित्रादियोगतादाम्यमनुभवन्नेव सिद्धो भविष्यतीति तत्तुल्यत्वं सुसङ्गतम् , एवंभूतासाधारणगुणकीर्तनरूपेयं स्तुतिर्भगवतः स्वार्थसम्पदभिधायिनी, पुनः किंभूतो जिनेन्द्रः ? प्रभोत्पादितप्राणिपुण्यप्रकाशः प्रभया केवलज्ञान-दर्शनलक्षणकान्त्या, तदुत्थानेकान्तताकलितविहितनिषिद्धकाम्यनित्यनैमित्तिकोत्सर्गाऽपवादभ्राजिष्णुक्रियाकलापप्रतिपादकश्रुतलक्षणप्रभया च, उत्पादितः जनितः, प्राणिनां संसारिणां, पुण्यप्रकाश: महाव्रताऽणुव्रतादिसाधु श्रावकादिकर्तव्यधर्मोद्योतो येन सः; इयं च परार्थसंपदभिधायिनी असाधारणगुणो
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy