SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 524 दिवाकरकृता किरणावलीकलिता एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / . सयोर्मध्ये समासस्य स्वस्वरूपसन्निविष्टपदप्रतिपाद्यविशेषणविशिष्टतथाभूतपदप्रतिपाद्यविशेष्यप्रतिपादकत्वेनाखण्डार्थत्वाभावान्न विशेश्यवाचकत्वं किन्त्वखण्डार्थस्यासमासस्य तत्त्वमिति विनिगमकमपि नात्र क्रमते, यतः परः प्रकृष्ट आत्मा यस्य स परात्मेत्येवमस्य बहुव्रीहिसमासरूपत्वात्, जिनेषु इन्द्र इव इन्द्रो जिनेन्द्र इत्येवं जिनेन्द्रशब्दस्यापि समासरूपत्वात्, समासरूपत्वाविशेषेऽपि चान्यपदार्थप्रधानकत्वान्न परात्मशब्दस्य विशेष्यपरत्वं, किन्तु स्वघटकरदार्थप्रधानकत्वाजिनेन्द्रशब्दस्यैव तत्त्वमिति ध्येयम् / परात्मेति-प्रकृयात्मस्वरूपः, परात्मत्वरूपाविर्भावान्तरं न तदवस्थस्योत्तरकालं कदाचिदपि विनाश इत्यविनाशित्वमेव प्रकृष्टत्वम् / न चात्मनो द्वैविध्यं जिनेश्वरभेदेन, नैयायिकादिभिरीश्वरवादिभिरुपगतमिति परात्मापरमात्मा गतिरीश्वरः परसम्मत एवेति वाच्यम्, तथाविभागस्य जगत्कर्तृभावेनेश्वरस्य पूर्वसूरिभिरपाकृतत्वेनासम्भवात्, किन्न्ययोगलक्षणस्य जीवस्यैवात्मनः संसारी मुक्तश्चेत्येवं विभागो जैनराद्धान्ते, अवस्थाभेदतो जीवस्यैव पुनस्त्रेधा विभागः बहिरात्मा अन्तरात्मा परमात्मेति, तेषां चेत्थं नन्दीटीकागतेन अवस्थाभेदतो जीवः पुनस्त्रेधा प्रचक्षते / बहिरात्माऽन्तरात्मा च परमात्मेति तत्त्वतः // 1 // हेयोपादेयवैकल्यान्न यो वेत्ति हिताहितम् / निमग्नो विषयाक्षेषु बहिरात्मा स मूढधीः // 2 // अन्तरात्मा त्रिधा क्लिष्ट-मध्यमोत्कृष्टभेदतः / अयं तयोर्जघन्यः स्यान्मध्यमौ द्वौ तदुत्तरी // 3 // अप्रमत्तादयः सर्वे यावत् क्षीणकषायकाः / उत्तमा यतयः शान्ताः प्रभवन्त्युत्तरोत्तरम् // 4 // परमात्मा द्विधा सूत्रे सकलो निष्कलः स्मृतः / सकलः केवली प्रोक्तो निष्कलो मुनिनायकः // 5 / / इति पद्य कदम्बकेन स्वरूपमवसेयम् / अत्र परमात्मा सिद्ध एव, बहिरात्मा. ऽन्तरात्मानौ संसारिणाविति न दैविध्येन विभजनस्य पूर्वोदितस्पानुपपत्तिः, सकलस्वरूपस्य परमात्मनस्तीर्थकृत्वावस्थायां सत्त्वेऽपि निष्कलस्य तस्य सिद्धावस्थायामेव सत्त्वं, तदोनी च सर्वेषामेव जिनेन्द्रागां साम्बमिति त दूपेण स्तुति कस्यैव
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy