________________ दिवाकरकृता किरणावलीकलिता एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / 523 त्रिलोकीशवन्धस्त्रिकालज्ञनेता स एकः परात्मा गतिर्मे जिनेन्द्रः // 1 // सदेति / “स एकः परात्मा जिनेन्द्रो मे गतिः, [तच्छब्दस्य यच्छब्द. साकाङ्क्षत्वादनुक्तोऽपि यच्छब्द आक्षिप्यते ] यः सदा योगसात्म्यात् समुद्भूतसाम्यः प्रभोत्पादितप्राणिपुण्यप्रकाशः, त्रिलोकीशवन्द्यः त्रिकालज्ञनेता' इत्यन्वयः। स इति-आक्षिप्तसमानाधिकरणयच्छब्दसमभिव्याहृत-सदा योगसात्म्यात् समुद्भूतसाम्यः इत्यादिस्वरूपः, एकः अद्वितीयः-सजातीयद्वितीयरहितः यद्यपि जिनत्वकेवलित्व-मुक्तत्वादिलक्षणस्वगतजातिविशिष्टस्य स्वभिन्नस्य सद्भावात् सजातीयद्वितीयराहित्यं न सम्भवति तथापि यावन्तो धर्मा भगवति महावीरे पूर्वापरीभावापन्नास्तावद्धर्मविशिष्टतांपन्नमहावीरत्वलक्षणवैजात्यविशेषो नान्यत्र कुत्रापीति तदूपेण सजातीयेद्विती यरहितो भवत्येव भगवान् महावीरः येदि चेत्थंदिशा सजाती यद्वितीयरहितत्वलक्षणमेकत्वं प्रत्येकं सर्वस्मिन्नपि वस्तुनि सम्भवतीति न स्तव्योत्कर्षाधायकमिति विभाव्यते, तदा व्यवहारनिश्चययोर्मध्ये निश्चयनयस्यैवाश्रयणं कुर्वन्ति स्तुतौ स्तुतिकर्त्तार इति शुद्धपरसंग्रहरूपनिश्चयनयेन सर्वेषामात्मनां सच्चिदानन्दपरब्रह्मस्वरूपेणैक्यमेव, व्यवहारतस्तु भेद इत्यैक्यस्य निश्चयनयमतविषयस्यादरणादेक इति नानुपपन्नम् / परात्म-जिनेन्द्रयोर्मध्ये परात्मनो विशेष्यत्वं जिनेन्द्रस्य वेति विमर्श जिनेन्द्रस्य विशेष्यत्वे तदुत्तर विशेषणवाचकपदाभवात् समाप्तपुनरात्तत्वदोपो न भवत्येव, परात्मनश्च विशेष्यत्वे तदुत्तरविशेषणावाचकजिनेन्द्रपदसद्भावादुक्तदोषाशङ्का स्यादतो न तस्य विशेष्यत्वं, जातितदन्गप्रवृत्ति नमित्तकपदयोमध्ये जातिप्रवृत्तिनिमित्तकस्यैव पदस्य विशेष्यवाचकत्वमिति विनेगमकं चात्र नास्त्येवेत्येकपदमिव परात्मपदमपि विशेषणवाचकमिति पूर्वं तन्निर्वचनं न्याय्यं व्याख्याते च तस्मिन्नैवंभूतः क इत्याकाङ्क्षायां तन्नि. वृत्तये, जिनेन्द्र इति विशेष्यवाचकपदावतरणात् अथवा गौतम-कणाद कपिलपतञ्जलि-जैमिनिव्यास-बुद्ध-जिनेषु मध्ये एक एव जिनेन्द्रो मे गतिः, न तु गौतमादय इत्येव वक्तुं शक्यते, न तु तत्र एक एव परात्मा मे गतिरित्यभिधातुं शक्यं, परात्मनो दर्शनप्रणेतृणां मध्येऽपरिगणनात्, समासा-ऽसमा