________________ एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / जिनेन्द्रं सर्वशं सुरनरपतिस्तव्यमवर ____ कृपापारावारं सकलनयगर्भागमवरम् / / महावीरं योगाभ्यसनरतगम्यामलपदं नमामो विध्नौघापहरणनिदानं विभुवरम् // 1 // सूरीणां प्रवरं गुणालिनिलयं व्याख्यानवाचस्पति तीर्थोन्नत्यपरायणं जिनमतप्रोद्बोधदक्षं सताम् / शास्त्रागाघविचाररञ्जितबुधग्राम सुभक्त्या गुरुं श्रीनेमि प्रणमामि विश्वविदितं कीर्तिप्रतापालयम् // 2 // स्याद्वादामृतसारपाननिरतो यो नव्यभव्योक्तितो ग्रन्थबातमबाधितं रचितवान् प्राचोनयुक्त्यञ्चितम् / तं श्रीन्यायविशारदं बुधगणैरुद्गीयमानं यशोऽ• भिख्यं जैनमतप्रचारनिरतं कुर्वे हृदिस्थं सदा / 3 // यद्वात्रिंशिकयाऽपि सद्रचनया संबोध्य वीराप्तया बौद्ध-न्यायमुखप्रसिद्धमतगा. चर्चा मुहुश्चर्चिता / तं वादीन्द्रदिवाकरं मतिनिधिं श्रीसिद्धसेनं स्मृति नव्योद्बोधमुपानये नयविदामयं कथाकोविदम् // // 4 // हैमं व्याकरणं परिश्रमबलात् स्लाधीनमानीय यो धातूनां सुगमं च रूपजलधिं कृत्वा बुधानां मुदे - लावण्यो जिनभक्तिचान्तहृदयो वीरस्तुतिव्याख्यया साफल्यं जनुषः करोति सुमतिः सोऽयं परार्थोद्यतः / / 5 / / श्रीसिद्धसेनदिवाकरः सर्वविघ्नप्रशमिनी मङ्गलमयीं वर्द्धमानद्वात्रिंकाख्यां परमकल्याणकारिणी भगवतो महावीरस्य स्तुतिं ग्रथनाति-- सदा योगसात्म्यात् समुद्भूतसाम्यः प्रभोत्पादितप्राणिपुण्यप्रकाशः /