________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / 521 . प्रसिद्धप्रातिभास्येति कामतस्तीर्थभक्तयः / ननु श्रीवर्धमानस्य वाचो युक्तः परस्परम् // 32 // प्रसिद्धेति / "प्रसिद्धप्रातिभास्येति" इत्यस्य स्थाने "प्रसिद्धप्रातिभस्येति' इति पाठो युक्तः। इति विंशतितमद्वात्रिंशिकापरिसमाप्तौ, क्षयोपशमविशेषतोऽनागत. विज्ञानमाकस्मिकं यद् भवति यथा कस्याश्चित् कन्यकायाः श्वो मे भ्राता आग. मिष्यतीति, प्रसिद्धप्रातिभस्य प्रसिद्धं प्रातिभं यस्य स प्रसिद्धप्रातिभस्तस्य प्रसिद्धप्रातिभस्य प्रमातुः, कामतः स्वेच्छया न तु परप्रेरणया, तीर्थभक्तयः तीर्थयात्रा तीर्थतीर्थकृतां विमलोच्चशिखरमन्दिरनिर्माणं तत्र भगवतां मूर्तिप्रतिष्ठापनं स्वामिवात्सल्यं नित्यं तीर्थप्रभावकसूरिप्रवरकृतव्याख्यानश्रवणसाधु-साध्वीश्रावक-श्राविकेति चतुर्विधतीर्थ पूजनजिनोदितसूत्रपूजनादिकास्तीर्थभक्तयः समुल्लसन्ति, ननु निश्चितम्, श्रीवर्धमानस्य श्रिया युक्तस्यापश्चिमतीर्थप्रवर्तकस्य वर्धमानस्वामिनः, वाचो वचनानि, 'युक्तः' इत्यस्य स्थानो 'युक्ताः' इति पाठो युक्तः / युक्ताः मुक्त्युपपन्ना इति तदर्थः, परस्परं अन्योऽन्यं न किमपि केनापि वचेनेन विरोधमावहतीत्यर्थः // 32 // व्याख्यामूलसुगूढविशतितमी द्वात्रिंशिकाया वरां स्पष्टार्थी स्वसमन्वयेन परितो निस्संशयं कुर्वती / लावण्यास्यसमुद्गता मतिमतामानन्ददानक्षमा श्रीसूरीश्वरनेमिपादकमले स्ताद् भृङ्गभावार्पिता // इति विंशतितमी द्वात्रिंशिकायाः व्याख्या समाप्ता /