SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 520 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टप्रिबोधद्वात्रिंशिका / चेत्येवमागमोन्नतिः, ज्ञानं सम्यगज्ञानम्, योगश्चित्तवृत्तिनिरोधः ज्ञामयोग एव वा, अध्याहारः बाह्येन्द्रियाणां मनसश्च स्वस्वविषयेभ्यः परवर्तनम् , धारणा चितस्यैकस्मिन् विषये ध्येये स्थिरीकरणं, भावना-प्राणसंरोध कृच्छ्रयत्न व्रतानि च भावनाविषयेऽनित्यत्वाशुचित्वादिपरिभावना, प्राणसंरोधः रेचक-पूरककुम्भकस्वरूपः प्राणायामः, कृच्छ्रयत्नः कृच्छं प्रजापत्यं द्वादशदिनसाध्यं तत्राद्यदिनत्रये प्रातर्भोजनं ततस्त्रिषु दिवसेषु सायंभोजनं, ततो दिनत्रयमयाचितभोजनं, ततः परं दिनत्रयमनशनमिति तद्विषयको यत्नः व्रतानि पञ्चमहाव्रतदेशवकोपवास. प्रभृतीनि च तीर्थोन्नति कराणि परिशीलयेदित्यर्थः // 30 // दोषव्यक्ति-प्रसंख्यान-विषयातिशयात्ययः / परमैश्वर्यसंयोग-ज्ञानेश्वर्य विकल्पयेत् // 31 // दोषेति / 'दोषव्यक्ति०' इत्स्य स्थाने 'दोषपक्ति' इति पाठो युक्तः / दोषपक्ति-प्रसंख्यान-विषयातिशयात्ययैः दोषाणां संसारबीजभूतानां कामक्रोधादीनां विगलनं पक्तिः परिपाकः, पक्वं हि फलं झटित्येव विगलितं भवति तथा काम-क्रोधादीनां विगलनं, प्रसङ्ख्यानं निर्विकल्पकसमाधिः, विषयातिशयात्ययः ज्ञाने विषयातिशय एकज्ञानापेक्षयाऽन्यज्ञानस्याधिकविषयः तदपेक्षया ज्ञानान्तरस्याधिको विषयः, एवंविधविषयातिशयस्यात्ययोऽभावः स च सर्वज्ञज्ञाने सम्भवति तैः दोषपक्तिप्रसङ्ख्यानविषयातिशयात्ययैः, अस्य विकल्पयेदित्यनेनान्वयः, किं विकल्पयेदित्याकाङ्क्षायामाह- परमैश्वर्यसंयोग-ज्ञानेश्वर्यमिति परमैश्वर्यं परमप्रभुत्वं, संयोगः सम्यग्योगः ज्ञानेश्वयं परमप्रकृष्टज्ञानवत्त्वं परमैश्वर्यसंयोगज्ञानेश्वर्याणां समाहारः परमैशानैश्वर्यं तत् दोषाणां सर्वथोच्छेदलक्षणपरिपाके सति परमैश्वर्यं परिपूर्ण भवति दोषोच्छेदतारतम्यादैश्वर्यतारतम्यमिति दोषपक्त्या परमैश्वर्यम्, विकल्पयेत् विशेषरूपेण परिकल्पयेत्, निर्विकल्पकसमाधिलक्षणप्रसंख्यानस्य न्यूनाधिककालाद्यवस्थानतः संयोगस्यापि तथा तथावस्थानलक्षणविकल्पनमिति प्रसंख्यानेन संयोग विकल्पयेत्, अशेषविषयकत्वलक्षणविषयातिशयात्ययतो ज्ञानश्वर्य परिपूर्ण सम्पद्यत इति विषयातिशयात्ययेन ज्ञानेश्वर्य विकल्पयेदित्यर्थः // 32 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy