________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / 519 भिन्नभिन्न इति भवति परमेश्वररूपं ज्ञानम् , शिवं कल्याणं, कर्मोपयोगवैराग्यं कर्मफलस्पृहाशून्यत्व धामप्राप्तिश्च लोकान्तोपलक्षितसिद्धशिलोपरिस्थ्मोक्षस्थानावाप्तिश्च, योगतः भवतीति शेषः, ऊर्ध्वगमनैकस्वभावो जीवः शैलेशीकरणप्रयत्नलक्षणयोगतोऽशेषकर्मक्षपणं कृत्वा स्वस्वभावादव लोकान्तं गच्छतीत्यर्थः // 28 // अतः परं त्रिंशत्तम-द्वात्रिंशत्तमसमाप्तिं यावद् भगवतो वर्तमानतीर्थाधिपतेः श्रीवर्द्धमानस्य वचसोऽन्योऽन्यं युक्तत्वं चतुर्भिः पद्यैरुपसंहाति - पृथक् सहाविनिर्भागैर्दया-वैराग्य-संविदाम् / ऐश्वर्यमोक्षोपशमसमावेशविकल्पतः // 29 / / पृथगति / दया-वैराग्य संविदां सर्वप्राणिनां सुखाभिकाङ्क्षणं दय', 'सर्वे जीवाः सुखिनो भवन्तु मा कश्चिद् दुःखभागू भवतु' इत्येवं शुभाशंतननिति यावत्, वैराग्यं सर्व विषयतृपं, संवित् सम्यगवबोध इत्येवंस्वरूपाणाम् अवि न. र्भागैः विभागरहितत्वेन, अस्यायमंशः ऐश्वर्येऽन्तर्भवति अयं पुनरंश! माक्षस्वरूपान्तर्गत इत्येवंविभागाभावेनेति यावत्, पृथकू दयाया ऐश्वर्ये समावेशः, ईश्वरो हि दयावान् भवतीति वैराग्यस्य मोक्षे समाबेशः मुक्तो हि नांशतो विषयतृष्णावान् सर्वथा वितृष्ण ऐवेति ज्ञानस्योपशमे समावेशः, उपशान्तः खलु ज्ञानः भवति, सह युगपद्, ऐश्वर्यमोक्षोपशमसमावेशविकल्पतः सर्वेषां दया वैराग्य. संविदां युगपदेव परस्पराविनिर्भागवत्तित्वेनैश्वर्यमोक्षोपशमेषु समावेश इत्येवं विकल्पतो भगवतस्तीर्थभक्तिमुपद्व्हयेत् द्रव्यार्थिकनयेन सर्वेषां द्रव्यात्मनैक्यं दया-वैराग्य-संविदामैश्वर्य-मोक्षोपशमानां चेति सह समावेशविकल्पनम्, पर्यायार्थिकेन विभिन्नकारणविभिन्नस्वरूपत्वेन चोक्तानां भेद एवेति पृथकू समावेशविकल्पनमिति जैनतीर्थ एवेत्थं समाश्रयणं सम्भवतीति तीर्थभक्तिरुद्भूता भवतीत्यर्थः // 29 // आगमाभ्युदय-ज्ञान-योगाध्याहार-धारणा / भावना-प्राणसंरोध-कृच्छ्रयत्नव्रतानि च // 30 // . . . आगमेति / आगमाभ्युदय-ज्ञान-योगाभ्याहार-धारणा आगमाभ्युदयः जैनागमास्यान्यागमतोऽबाधितार्थकत्वादिना वैशिष्टयपरिभावनं तदध्यापनादिकं