________________ 518 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिंप्रबोधद्वात्रिंशिका / तत्समीहया प्रवर्तनमपि दुश्चेष्टितम्, ननु दुःखात्ययस्य हितत्वमविगानेन सर्ववाद्यनुमतं, दुःखं च शरीरं षडिन्द्रियाणि षविषयाः षड्बुद्धयः सुखं दुःखं चेत्येक. विंशतिविधमिति दुःखासम्भिन्नतया दुःखस्वरूपस्य सुखस्य हेयत्वमेवेति तदत्य योऽपि हित एवेति चेत्, न वैषयिकसुखस्य दुःखमध्ये परिगणितस्याहितत्वेऽपि आत्मस्वरूपस्य तस्यात्यन्तहितत्वेन तदुच्छेदस्य हितत्वासम्भवादित्ययः // 26 // यदा च शास्त्रोपदर्शितमहापुरुषादिभूतपूर्वानेकदृष्टान्तानुस्यूतचरित्राणि जैनधर्मप्रभावकसूरिप्रवरादितः श्रुत्वा संसारनिर्विण्णो लोकशब्दार्थहिताहितालोकनसमर्थो जनो लोकशब्दव्यपदेश्यो मुमुक्षुर्भवति तदाऽस्य परमपुरुषार्थासीमा नन्दस्वरूपमोक्षावाप्तिरवश्यं भवतीत्याह- . दृष्टान्तश्रविकलौकः परिपक्तिशुभाशुभैः / . सुखार्थ-संशयमाप्तिप्रतिषेधमहाफलैः // 27 // दृष्टान्तश्रविकैरिति। अत्र "दृष्टान्तश्राविकैः” इति पाठो युक्तः / दृष्टान्तश्राविकैः दृष्टान्तं निदर्शनं श्रावयन्तीति दृष्टान्तश्राविकाः, तैर्व्याख्यातृभिराचार्यादिभिः, परिपक्तिशुभाशुभैः कर्मपरिपाकप्रभवशुभाशुभरूपैदृष्टान्तैः किं फलकैस्तैः ? सुखार्थ-संशयप्राप्तिप्रतिषेधमहाफलैः सुखरूपो योऽर्थः परमपुरुषार्थः संशयश्च तयोः प्राप्ति-प्रतिषेधौ सुखार्थप्राप्तिसंशयप्रतिषेधौ महाफले उत्कृष्टप्रयोजने येषु ते सुखार्थ-संशयप्राप्तिप्रतिषेधनहाफलास्तैः, लोकः हिताहितालोकनसमर्थः, भवतीति शेषः // 27 // इत्थं लोकभावमापन्नस्य पुंसः कल्याण संपद्यत इत्याह ज्ञानात् कृत्स्नेष्टधर्मात्मपरमेश्वरतः शिवम् / कर्मोपयोगवैराग्यं धामप्राप्तिश्च योगतः // 28 // ज्ञानादिति / ज्ञानाद् लोकालोकादिसकलपदार्थविषयकःज्ज्ञानावरणीयकर्मात्यन्तक्षयसमुत्थात् केवलज्ञानात्, कथम्भूतात् कृत्स्नेष्टधर्मात्मपरमेश्वरतः सम्पूर्णेष्टधर्मस्वरूपपरमेश्वररूपात् ज्ञानस्य धर्मस्वरूपत्वं. गीताबचनतोऽप्यायाति. तद्वचनं च “स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्" इति अत्र धर्मपदेन परब्रह्मस्वरूाज्ञानस्यैव ग्रहणम्, परमेश्वरः केवली स च केवलज्ञानोपयोगेन