________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वत्रिशिका / 517 द्वीपवेलोदधिव्याससंख्या भोगविभूतयः / स्वर्गापायानुभागाश्च सनिमित्ता यथेष्टतः // 25 // द्वीपेति / द्वीपवेलोदधिव्याससंख्याः द्वीपवेलोदधीनां व्यासतो याः संख्यास्तत्समसङ्खयको द्वीपवेलोदधिव्याससङ्ख्याः , भोगविभूतयः सुखानुभवनैश्वर्याणि, स्वगोपायानुभागाश्च स्वर्गो देवेन्द्राद्यावासस्थानप्राप्तिजनितसुखविशेषः अपायो नारकादिजन्मानुभवनीयो यातनादिदुःखं, तदनुभागस्तत्रैवाधिपत्य-किङ्करत्वादिविशेषजनितोपभोगान्तरप्रकार इत्येवं स्वर्गापायानुभागा अपि, यथेष्टतः स्वस्वानुमतकारणतः, सनिमित्ताः निमित्तवन्तः, कादाचित्कानां प्रतिनियतदेशानां तेषां प्रतिनियतकारणमन्तरेणोत्पादसम्भवादित्यर्थः // 25 // शास्त्रानुपदिष्टाभिनवयुक्त्युपढोकितज्ञानाचारविशेषौ परमपुरुषार्थ्यननुकूलावपि तदनुकूलत्वबुद्धयाऽऽश्रयन् जनो वृद्धपरम्परायाताचारविकलो यत् सुखं दुःखसंपृक्त "मिति कल्पन या परित्यजति तत्सुख-दुःखोभयवैकल्यमहितमेव दुःखाननुषक्तस्य स्वात्मरूपस्य सुखविशेषस्य परित्यक्तुमशक्यत्वादित्याशयेनाह ज्ञानाचारविषेशाभ्यामाचाराङ्क्रियते जनः / स नात्युत्तानगम्भीरः सुख-दुःखात्ययोऽहितः // 26 // ज्ञानाचारविशेषाभ्यामिति / ज्ञानाचारविशेषाभ्यां वैशेषिकायेकान्तवाद्युपगततत्त्वज्ञानसन्ध्यावन्दनादिनित्यकर्माप्ताचरणाभ्यां, आचाराद् आप्तपरम्परागतसम्यक्चारित्रादितः, ह्रियते परिभ्रष्टो भवति, जनः विवेकशून्यो रथ्यादिपुरुषसदृशो मनुष्यः, जन इत्युक्त्या तत्त्वातत्त्वविवेकविकलत्वेन मनुष्यमात्रता लभ्यते, एतदवमतये त्वाह-स नात्युत्तानगम्भीर इति स जनः अत्युत्तानगम्भीरो अत्युच्चतरगाम्भोर्यादिगुणवान् , म नैव, अत्युत्तानगम्भीरत्वे वैशेषिका कान्तवादिभिः प्रतारितो न भवेत्, ननु वैशेषिकाद्युपगताशेषविशेषगुणोच्छेदलक्षणपरमपुरुषार्थमोक्षप्राप्त्याशावशीकृतो जनस्तादृशमोक्षकारणज्ञानविशेषाचारविशेषाववलम्बते इत्यत आह-सुख-दुःखात्ययोऽहित इति-अशेषविशेषगुणोच्छेदे दुःखस्योच्छेदवत् सुखस्याप्युच्छेद इति दुःखोच्छेदमात्रस्येष्टत्वेऽपि सुख-दुःखोभयोच्छेदोऽहितोऽनिष्ट इति न भवत्यशेषगुणोच्छेदः, परमपुरुषार्थ इति