________________ 516 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / समग्रेति / समग्रविकलादेशत्यागाभिप्रायतत्कथा अनन्तधर्मात्मक वस्तु समग्र सकलं एकैकधर्मस्वरूपं वस्त्वंशत्वाद् विकलमसम्पूर्ण, तयोरादेशत्यागौ समग्रस्यादेशे विकलस्य त्यागः विकलस्यादेशे समग्रस्य त्यागः, प्रमाणतः समग्रस्यानन्तधर्मात्मकवस्तुन आदेश: स्यादस्त्येव घट इत्येवंरूपस्तत्र-- "कालात्मरूपसम्बन्धाः संसर्गोपक्रिये तथा / गुणिदेशार्थशब्दाश्वेत्यष्टौ कालादयः स्मृताः // 8 // " इतिवचनपरिगणितैः कालादिभिरष्टभिर्य एवैकस्य धर्मस्य कालः स एवाशेषाणां धर्माणामपोति कालैक्येन सर्वधर्माणामभेदप्राधान्यविवक्षया स्यात्पदाङ्कितास्त्यादिपदेनास्तित्वाद्येकधर्मप्रतिपत्तौ तदभेदमाभेजानामशेषाणामपि धर्माणामवगतिरित्येवं प्रतिभङ्गसप्तभङ्गीतोऽनन्तधर्मात्मकवस्तुप्रतिपत्तिः . प्रमाणात्मिका भवतीति सा सप्तभङ्गी प्रमाणसप्तङ्गीति गीयते, य एकस्य धर्मकालस्ततो भिन्न एवान्यधर्मस्य काल: एवामात्मरूपादिरपीत्येवं कालादिभिरष्टभिरशेषधर्माणां भेदप्राधान्यविवक्षया स्यात्पदाङ्कितेनाप्यस्त्यादिपदेनैकधर्मप्रतिपत्तौ त दमेवात्मसात् कुर्वतामन्यधर्माणां न प्रतीतिः किन्त्वैकस्यैव धर्मस्य वस्त्वंशस्यावगतिरिति सेयं वस्त्वंशावगतिर्नयात्मिकेति प्रतिभङ्ग नयात्मिकां प्रतिपत्तिं जनयन्ती सप्तभङ्गी नयसप्तभङ्गोति कथ्यते इति तथा, विज्ञानाभिप्रायतो वस्तु तदंशविषयिणी कथा समग्रविकलादेशत्यागाभिप्राय-तत्कथा भवति सा च "सामान्या व्यासतः" इत्यस्य स्थाने "सामान्यव्यासतः” इति पाठो युक्तः / सामान्यव्यासतः सामान्यतो व्यासतश्चेति तदर्थः, सामान्यतः स्यादस्त्येव वस्तु स्यान्नास्त्येव वस्त्वित्यादिसप्तभङ्गात्मका, व्यासतोऽवान्तरघटत्व पटत्वादिविशेषतः स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यादिसप्तभङ्गात्मिका; सा कथं प्रभवतीत्याकाङ्क्षायामाइ-शैक्ष्यविपक्षाचार्यशक्तितः इदं कर्तव्यं नेदं कर्तव्यमिदमित्थमववोद्धव्यमित्यादिशिक्षणयोग्याः शैक्ष्याः परस्परविरुद्धमतव्यवस्थानुकूलविचारनिपुणा विपक्षाचार्यास्तेषां या शक्तिरूपदिश्यमानार्थावधारणसामर्थ्यरूपा तत्तदर्थप्रतिपादनसामर्थ्यरूपा च ततो निरुक्तकथा सम्पद्यत इत्यर्थः // 24 // केचिज्जीवा बहुविधभोगविभूतीरनुभवन्ति, केचित् सुखविशेषात्मकस्वर्गफलभागिनो भवन्ति, केचित् पुनर्नारकीयां यातनामनुभवन्ति एतद्वैचित्र्यं स्वस्वाश्रितागमप्रतिपादितविधि-निषेधविषयविहितनिषिद्धाचरणनिमित्तकमित्युपदर्शयति--