________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / 515 स्तदात्मकं तत्स्वरूपं जगत्, एतेनानित्यत्वं भावितं, तस्माद्धेतोरेवं भवतीत्याकाङ्खायामाह--धर्माधर्मस्वभावेष्टिपुरुषार्थनिमित्ततः पूर्वकृतं धर्मस्वरूपमधर्मस्वरूपं वा कर्म दैवमिति व्यपदिश्यते इति धर्माधर्मेत्यनेन दैवस्य ग्रहणम् "वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः / केनेदं रचितं तस्मात् स्वभावात् तद् व्यवस्थितिः // 3 // " इति वचनाभिमतस्य स्वभावरूपकारणस्य स्वभावपदेन ग्रहणम्, एतच्च नियतिरूपकारणस्याप्युपलक्षणम्, नियतिश्चेदमस्मिन्नेव समयेऽस्मिन्नेव देशेऽनेनैव रूपेण भवितव्यमिति नियमकारणं भवितव्यताशब्देन व्यपदिश्यते, तन्मूलकं च “यदभावि न तद्भावि भावि चेन्न तदन्यथा / इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ? // 4 // तन्न भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यत्नेन / करतलगतमपि नश्यति शिवशिवभवितव्यता विषमा // 5 // अवश्यंभाविभावानां प्रतीकारो भबेद् यदि / / तदा दु:खन लिप्येरन् नल-राम-युधिष्ठिराः // 6 // इत्यादिवचनम् अनुमन्यन्ते च नियतेः कारणत्वमालङ्कारिकाः, यतः-- "नियतिकृतनियमरहितां हादैकमयीमनन्यपरतन्त्राम् / / नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति // 7 // इति पद्ये विधिसृष्टितो भारतीसृष्टेवैलक्षण्यप्रतिपादनाय नियतिकृतनियमरहितामित्युक्तिरिति दृष्टिरभ्युपगमस्तेन कालविध्यादीनां मध्ये यस्याभ्युपगमो यन्मते तस्य तन्मते ग्रहणम्, पुरुषार्थः पुरुषप्रयत्नः पुरुषकारशब्दव्यपदेश्यः, तथा च धर्माधर्मस्वभावेष्टिपुरुषार्थस्वरूपनिमित्ततः प्रक्रियात्मकं हेत्वसदिति सदसदात्मकमपेक्षाभेदेन विश्वमिति स्याद्वादराद्धान्तं कान्तमित्यर्थः // 23 // ननु यदि वस्तु सदसन्नित्यानित्य-भिन्नाभिन्नाद्यनेकान्तात्मक तदा तथैव तत्प्ररूपणं कर्तुमुचितमिति वादिनां विभिन्नकथा, तद्विषयकः शिष्यान् प्रति शिक्ष.कस्योपदेशोऽपि न समीचीनतामञ्चतीत्यत आह . समग्रविकलादेशत्यागाभिप्रायतत्कथा / सामान्या व्यासतः क्ष्यविपक्षाचार्यशक्तितः // 24 //