________________ 514 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / इत्याकाङ्क्षायां तत्र हेतुमाह-समस्त-व्यस्तवृत्तिभ्यां समस्तरूपेण वृत्तिः परि. णामः व्यस्तरूपेण वृत्तिः परेणामः ताभ्यां समस्त-व्यस्तवृत्तिभ्याम् , अर्थपरिणते. रपि अर्यस्य तथाविधारिणामाच्च, पिण्ड एको विकल्पवान् भवितुमर्हतीत्यर्थः // 21 // माध्यमिकदृष्टिमुपदर्शयति-- सदसत्सदसन्नेति कार्य-कारगसंभवः / अनित्य-नित्यशून्यत्वे शेषमित्युपपादितम् // 22 // सदिति / सदसत्-सदसत् विश्वं सदिति पक्षे न कार्य कारणसंभवः यतः कारणं यथा सत् सर्वकालवृत्ति नित्यमिति यावत् तथा कार्यमपि सर्वकाल. वृत्तित्वान्नित्यमिति कार्य-कारणभावप्रयोजकस्य पौर्वापर्यनियमस्थाभावादिदं कार्यमिदं कारणमिति न स्यात्, विश्वमसदिति पक्षेऽपि गगनकुसुम-शशशङ्गादीनामिव न कार्यकारणसंभवः, कारणं सत् कार्यमसदिति सदसत्पक्षे सदसतोः सम्बन्धासंभवाद्-न कार्य-कारणसम्भवः एतेन कारणमसत् कार्य सदितिपक्षेऽपि कार्य-कारणसंभवो नेत्यावेदितं भवति, कार्य-कारणोभयं, सदसदितिपक्षस्तु विरोधाघ्रातत्वादेव न सम्भवति, प्रत्येकपक्षदोषस्तूभयपक्षे जागत्येव, अनेन अनित्य-नित्यशून्यत्वे 'अनित्यं च नित्यं च शून्यं चेत्यनित्य-नित्यशून्यानि तेषां भावोऽनित्य-नित्यशून्यत्वं तत्र इति उक्तस्वरूपं, शेषं शेषं कि परिज्ञाय वा नवेत्यत्राभिमतं शेषम्, उपपादितं निरूपितं भवतीति शेषः // 22 // स्याद्वाददृष्टिमधिकृत्याह-- अवस्थितं जगत् सत्त्वाद् धात्वसत् प्रक्रियात्मकम् / धर्माधर्मस्व मावेष्टिपुरुषार्थनिमित्ततः // 23 // अवस्थितमिति / जगत् बिश्वम्, सत्त्वात् उत्पाद-व्यय-ध्रौव्यात्मकत्वलक्षणसत्वात्, अवस्थितं सर्वदैव स्थितिमत् सत्त्वलक्षणप्रविष्टस्य ध्रौव्यस्य सर्वदा स्थितिमन्तरेणानुपपत्तेः, "धात्वसत्" इत्यस्य स्थाने “हेत्वसत्" इति पाठो युक्तः, हेत्वसत हेतुना कारणेनासद् भवतीत्येतस्मात् कारणाद्धत्वसत्, कथं हेत्वसदित्याकाङ्क्षायामाह- प्रक्रियात्मकमिति प्रतिक्षणं यद्विलक्षणस्वरूपा क्रिया परिणति.