________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / 513 कायादि शरीरादि, आदिपदात् तदवयवादीनामुपग्रहः, इन्द्रियम् इन्द्रियस्यात्मनो लिङ्गम्, एकादि एकेन्द्रियं इन्द्रियमित्यादि, एतद्वैलक्षण्यं कारणसामान्य. स्याविशिष्टत्वेऽपि सहकारिसमवधानविशेषस्य वैलक्षण्यादित्यर्थः // 19 // दृष्टान्तरं दर्शयतिजाति-प्रत्यय-सामान्य-चर-स्थिरचरं मनः / उभयं विभवा देह-लोकयोरनुगामि च // 20 // जातिप्रत्ययेति / जातिप्रत्यय-सामान्य-चर-स्थिरचरं जातिरुत्पत्तिः, प्रत्ययः कारणः, तयोः सामान्यं साधारण विषयीकरणेन, मनः जातिमुत्पत्ति भावयति इदमित उसन्नमिति परिभावयति / इदं चेतस्यकारणमिति चिन्तयति च चरं चञ्चलस्वभावमयोगिनां, पुनः स्थिरचरं ध्यानावस्थायां कञ्चित् कालं स्थिरीभूय व्युत्थितौ पुनः चञ्चलं भवति, उभयं चरस्वभावं स्थिर-चरस्वभावोभयात्मकम्, मनः देह-लोकयोः देहे-लोके, चानुगामि "विभावा" इत्यस्य स्थाने 'विभवौ' इति पाठो युक्तः / विभवौ विशेषेण भासते इति तदर्थः जातिप्रत्ययादिकं सर्व मनोऽधीनं यथा यथा मनश्चिन्तयति तथा तथा तत्कल्पितं वस्तु प्रसरति, उक्तं च "मन एव मनुष्याणां कारण बन्ध-मोक्षयोः / बन्धाय विषयासक्तं मुक्त्यै निर्विषयं मनः // 2 // " इति चेत्याशयः // 20 // पर्यायवादिदृष्टिं भावयति रूपादिमानं द्रव्यं च पिण्ड एकविकल्पवान् / . समस्त-व्यस्तवृत्तिभ्यामर्थपरिणतेरपि // 21 // रूपादिमात्रमिति / रूपादिमात्रं द्रव्यं रूप-रस-गन्ध-स्पर्शस्वरूपमेव. द्रध्यं, न तु रूपादिगुणानामधिकरणं द्रव्यमतिरिच्यते, "पिण्ड एक” इत्यस्य स्थानमै "पिण्ड़ एको' इति पाठः समुचितः / पिण्ड एकः एकतयाऽवभासमानः पिण्डः, विकल्पवान् रूप-रस-गन्ध-स्पर्शादिलक्षगविशेषवान्, कथमेकोऽनेकविशेषरूप 33