________________ 512 दिवाकरकृता किरणावलीकलिता विशतितमी दृष्टिप्रबोधद्वात्रिंशिका / विरुद्धम् यद्यपि जैनमतेऽपि कार्मणशरीरेण सह क्षीरनीरसम्बन्धवदन्योऽन्यसम्बन्धाच्छरीरविभुतादिकं सामस्त्यात्मनस्तथापि न गुण-दोषत इति विशेषः // 17 // शेषमेव दृष्टयन्तरमुपदर्शयतिगुणप्रचयसंस्कारवृत्तयः कर्मवृत्तयः / अनाद्यन्तरावश्ययथा चेतरयोगतः // 18 // गुणप्रचयेति / वश्य” इत्यस्य स्थाने "वस्था” इति पाठो युक्तः / गुणप्रचयसंस्कारवृत्तयः गुणानां सत्त्व-रजस्तमसां यः उपचयापचयनिबन्धनः प्रचयः समुदायभेदः तस्य य: संस्कारो विविक्तपरिणाम जननाभिमुख्यं पूर्वपूर्वगुणपरिणामानुस्यूतं सर्वेषां गुणानामपचितानामपि सूक्ष्मरूपेणावस्थानमेव संस्कारस्त. वृत्तयः तत्प्रभवाः परिणामविशेषास्ते, कर्मवृत्तयः शुभाशुभफलकपुण्य-पापलक्षण सञ्चितकर्मपरिणामाः, ते कथम्भूताः ? अनाधनन्तरावस्थाः अनादिकालीनपूर्वापराव्यवधानलक्षणानन्तर्यशालिन्यवस्था यासां तथाभूताः अनादिकालतोऽविच्छेदेन समागता इति यावत्, एवंविधावस्थाने को हेतुरित्याकाङ्क्षायामाह-यथा चेतरयोगतः यथा च येन प्रकारेण च इतरस्योपोद्वलकस्य सहकारिणो योगः समवधानं ततः इत्यर्थः // 18 // समानादपि कारणात् सहकारिविशेषसमवाधानवैलक्षण्यात् कार्यवेलक्षण्यं भवतीत्युपदर्शयति भूतप्रत्येकसंयोगसामान्यार्थान्तरात्मकम् / पञ्चधा बहुधा वाऽपि कार्यादेकादिवेन्द्रियम् // 19 // भूतेति / "कार्यादेकादिवेन्द्रियम्" इत्यस्य स्थाने “कायाद्ये कादिवेन्द्रियम्' इति पाठो युक्तः / भूतप्रत्येकसंयोगसामान्यार्थान्तरात्मकम् भूतानां भूम्यादीनां, प्रत्येकं यः संयोगः तद्रूपसामान्यतोऽर्थान्तरात्मकं विभिन्न विशेषस्वरूपं भूतप्रत्येकसंयोगसामान्यार्थान्तरात्मकम् अथवा भूतप्रत्येकसंयोगसामान्यं चार्थान्तरं च भूतप्रत्येकसंयोगसामान्यार्थान्तरे तदात्मकं तदुभयात्मकं सामान्य विशेषोभयस्वरूपमित्यर्थः, पञ्चधा औदारिक-वैक्रियाहारक-तैजस-कार्मणमेदेन पञ्चविधं, वा अथवा, बहुधाऽपि पार्थिव-जलीयादिमेदेन जरायुजाण्डजादिमेदेन बहुप्रकारमपि,