________________ दिवाकरकृता किरणावलीकालता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / 511 निह्नवप्रतियोजनातो यदन्यदुपदिष्टं भवति तदुपदर्शयति चैतन्य-बुद्धयोविच्छेदः परिणामेष्वसंश्रयात् / न विकल्पान्तरं भोक्तुरने नोक्तं सुखादिवत् // 16 // चैतन्यबुद्धयोरिति / चैतन्यबुद्धयोः चैतन्यं कर्तृत्वादिरहित: कूटस्थनित्यः पुष्करपलाशवनिर्लेप चेतनः पुरुषः, बुद्धिः सत्त्व-रजस्तमोगुणत्रयसमावस्थालक्षणायाः प्रकृतेः सत्त्वगुणोद्रेकात् प्रथमः परिणामः कर्तृस्वरूपो महान् यतोऽनन्तरमहङ्करादिलक्षणः परिणाम उपजायते, तयोः, विच्छेदः विविक्तरूपता, यतः परिणामेषु बुद्धिपरिणामेष्वहङ्कारादिषु; असंश्रयात् चैतनस्यासक्रमणात्, बुद्धिः परिणमतेऽतः कर्तृन्दादिममवतिपुरुषस्तु न कस्यचित्कार्य न वा कस्यापि कारणमिति केवलं ज्ञानरूपत्वाद् युक्तवात्मा, भोक्तुः तस्य, विकल्पान्तरं काम-क्रोध-लोभमोहादिकं, न नैव समस्ति, सुखादिवत् सुख-दुःखादिकं यथाकर्तरूपाया बुद्धेरेव नात्मनस्तथा, इति अनेन निवप्रतियोजनप्ररूपणेन, उक्तम् एतदप्येकान्तकापिलादिमतं निह्नवप्रतियोजनैवेत्यर्थः // 16 // अन्यदपि कापिलकल्पितं निह्नवप्रभावितमुपदर्शयतिशरीरविभुतातुल्यमानन्त्यगुण-दोषतः / संसारप्राप्त्यभिव्यक्तिर्विकल्पाः कारणात्मनः // 17 // शरीरविभुतेति / “शरीरविभुताऽतुल्यमानतागुणदोषतः” इत्येवं पाठो युक्तः। कारणात्मनः कारणं परिणामित्वाद् बुद्धिस्तया सह मेदाग्रहात् तादात्म्याभिमानतस्तदात्मनश्चैतन्यस्य, गुणदोषत: सत्त्व-रजस्तमोरूपगुणानामुपचयापचयलक्षणदोषात, शरीरविभुता वस्तुतो जगद्वयापिनोऽपि तस्य शरीरव्यापिता भवति, अतुल्यमानता कृमि-कीटादिभावमापन्नस्यातिसूक्ष्मपरिमाणत्वं हस्त्यादिभावमापन्नस्य महत्परिमाणत्वमित्येवमसमानमानत्वम् , वस्तुतो विभुत्वात् सर्वेषां समानमानतैव, संसारप्राप्त्यभिव्यक्तिः यद्यपि नानाश्रया प्रकृतिरेव संसरति बध्यते नापि मुच्यते किन्तु गुण दोषतः संसृतिप्राप्त्याविर्भावः इति, विकल्पाः पर्यायाः सम्भवन्ति, अतो वस्तुस्थितिमाश्रित्य न विकल्पान्तरं भोक्तुरिति पूर्वमुक्तं न