________________ 510 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / / किं लक्षणगवेषणया, लक्षणान्तरेण प्रकृतलक्षणस्य लक्ष्येतरव्यावृत्त्यधिगमाभ्युपगमे तु ततः प्रकृतालक्ष्यस्यैव तथावगतिरस्तु किं प्रकृतलक्षणेन लक्षणान्तरेण तथाऽभ्युपगमे त्वनवस्था न निरोढुं शक्येत्येवं देश धर्मविकल्पतः, च पुनः, सदादिप्रतिभेदात् सदादिरूपविरोधिविशेषात्, लक्ष्यं यदनुमतं तत्सदूपमस द्रपं वा तदुभयमनुभयं वा, यदि सद्रूपं तदा सर्वप्रकारेण सर्वप्रमाणाबाध्यमभ्युपेयं यत्केनापि प्रमाणेन केनापि रूपेण न बाध्यते तदेव सदिति सर्वैरपि वादिभिरविगानेन प्रतीतेः तथा चैवम्भूतसद्रूपं लक्ष्यं तदैव भवेद् यदितरव्यावृत्तस्वरूपं तदवधारितं भवेत् अन्यतो व्यावृत्तस्यासाधारणस्वरूपस्थानावधारणे कमिदमबाधितमित्येवं ज्ञातुं शक्यम् तथा च येनेव सत्त्वनिर्णयस्तेनैवातद्वय वृत्तर मि निर्णय इति निष्प्रयोजनमेव लक्षणम्, यद्यसद्रूपमेवमपि लक्षणं निष्प्रयोजनम् सतो लक्षणस्यासति लक्ष्ये सम्बन्धासम्भवादसम्बद्धस्यातद्वथावत्तकत्वाभावादन्यथाऽतिप्रसङ्गात्, असतामपि गगनकुसुम-शशशङ्ग-खरविषाणादीनां परस्परव्यावृत्तस्वरूपावधारणपुरस्सरमेव बाधितत्वावधारणं भवति, तथा च तत्रापि बाधितत्वावगतिनिबन्धनमन्यतो व्यावृत्तिज्ञानं पूर्वमेव जातमिति न लक्षणप्रयोजनं किञ्चित् , “प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः" इति वचनात् प्रत्येकपक्षदोषाघ्रातत्वादेव सदसदु. भयरूपं लक्ष्यं न सम्भवति, अनुभयरूपत्वसम्भवदुक्तिकम् सत्त्वनिषेधेऽसत्त्वस्यासत्त्वनिषेधे सत्त्वस्यावश्यम्भावात् परस्परविरोधे हि न प्रकारान्तरस्थितिरिति वचनात्, एवं लक्षणमपि सदादिपक्षचतुष्टयकवलितमेव, यतो लक्ष्यतावच्छेदकसमनियतधर्म एक लक्षणं, तस्य लक्ष्यतावच्छेदकसमनियतत्वं तदाऽषधारितं भवेद् यद्यभिमतलक्ष्यातिरिक्तावृत्तित्वेन लक्ष्यतावच्छेदको निश्चितो भवेत् अन्यथा लक्ष्यतावच्छेदकस्य लक्ष्यातिरिक्तेऽपि सत्त्वे तत्रावर्त्तमानस्य लक्षणस्य लक्ष्यतावच्छेदकसमनियतत्वं न भवेत्, एव चोक्तरूपतयाऽवधारिते लक्षणस्वरूपे सत्येव तत्र सर्वप्रकारेण सर्वप्रमाणाबाधितत्वलक्षणं सत्त्व सुनिश्चितं भवति तथा च सत्त्वेन लक्षणनिश्चयस्य प्रागेव लक्ष्यतावच्छेदकलक्षणयोः सामनैयत्याधिगतये लक्ष्येतरभिन्नत्वेन लक्ष्यं गृहीतमिति निष्प्रयोजनं लक्षणम्, पूर्वोक्त प्रकारेणासदपि लक्षणं निष्प्रयोजनम् , एवं तदुभयानुभयपक्षयोरपि पूर्वोक्तदोषकवलितत्वमित्येवं सदादिप्रतिभेदालक्ष्यलक्षणयोः निह्नवप्रतियोजना भवन्तीत्यर्थः // 15 //