________________ दिवाकरकृता किरणावली कलिता विंशतितमी दृष्टिप्रबोधद्वात्रिशिका / 509 अतिदिशति: लक्ष्य-लक्षणयोरेवं देश-धर्मविकल्पतः / सदादिप्रतिभेदाच्च निह्नवप्रतियोजनाः // 15 // लक्ष्य लक्षणयोरिति / एवम् स्वाभ्युपगममात्रेण, निह्नवप्रतियोजनाः निह्नवानां लक्ष्य-लक्षणादिभावापलापिनां प्रतियोजनाः लक्ष्य-लक्षणभावाभ्युपगन्तृवादिविरुद्धप्ररूपणाः, तत्र हेतुः लक्ष्य- उक्षणयोरित्यादिः, लक्ष्य लक्षणयोः यल्लक्ष्यत्वेनाभिमतं यच्च लक्षणत्वेनाभिमतं तयोः, देश-धर्मविकल्पतः देशधर्माभ्यां यद्विकल्पनं तस्मात् , यल्लक्ष्यं तदेकदेशेन सर्वदेशेन वा, यद्येकदेशेन तदादेशान्तरं तस्य न तल्लक्षणतोऽन्यतो व्यावृत्तमित्यन्यतो व्यावृत्तदेशस्याव्यावृत्तदेशाद् भेदे एकमेव वस्तु लक्ष्यालक्ष्योभयस्वरूपमापद्येत, सर्वदेशेन लक्ष्य चेल्लक्षणं ततो भिन्नमापतितभिन्नत्वाविशेषात् तदन्यदपि लक्षणं किं न भवेत् , एव यद्धर्मेण लक्ष्यं भवति स धर्मो लक्ष्यतावच्छेदकः, स चालक्ष्यावृत्तित्वेनावगतो न वा, अवगत चेत् तेनैव लक्ष्यमलक्ष्याद् व्यावृत्तं प्रतोतमिति, कि लक्ष्यतावच्छेदकातिरिक्तेन लक्षगेन, अथ नावगतस्तदा लक्ष्य-तदितरसाधारणतया निर्णीतेन सन्दिग्धेन वा तेनालक्ष्यमपि पक्षकुक्षिसन्निविष्टं न च तत्र प्रकृतलक्षणमिति भागासिद्धिदोषसंदेहकवलितं तन्न लक्ष्येतरभेदानुमिति जनयेत् , न वा लक्ष्यव्यवहृतिं कुर्यात्, एवं लक्षणमप्येकदेशेन सर्व लक्ष्यं व्याप्नोति कात्स्न्येन वा, आये तद्देशमात्रं लक्षणं भवेत् देशान्तरं तु तस्य लक्ष्यमव्याप्नुवदलक्षणमिति लक्षणालक्षणोभयस्वरूपमेव तद्वत् कथं लक्षणम् , द्वितीयस्तु न सम्भवत्येव यतः कृत्स्नं तदेकत्र परिसमाप्तं कथमन्यत्र तदेवावतिष्ठेत, एवं यदपेण लक्षणं क्रियते स धर्मो लक्षणतावच्छेदकः, स लक्षणमात्रवृत्तित्वेनावगतो लक्षणतानियामको लक्षणालक्षणसाधारण्येन वा, आये तल्लक्षणान्तरं तदवगतिनिबन्धनं वाच्यं तत्राप्येवमित्यनवस्था, द्वितीयपक्षेऽलक्षणमपि निरुक्कलक्षणतावच्छेदकधर्माकान्तत्वेन लक्षणं स्यात् , तच्चालक्ष्यवृत्तित्वात् सकललक्ष्यावृत्तित्वाद् वा न लक्ष्येतरभेदानुमापकं / लक्ष्यव्यवहृतिजनकं वेति तत्साधारणलक्षणतावच्छेदकधर्मेणाभिमतं लक्षणमपि कथं तथा स्यात्, एवं लक्षणं लक्ष्येतरसाधारण्येनावगतं नेतरभेदानुमापकमिति तस्य लक्ष्येतरव्यावृत्ततयाऽवगतिरावश्यकी, सा यदि लक्षणान्तरमन्तरेण तदा प्रकृतलक्ष्यस्यापि लक्षणमन्तरेणैवेतरव्यावृत्त्यधिगतिरस्तीति