________________ 508 दिवाकरकृता किरणावलीकलिता विशतितमी दृष्टिप्रबोधद्वात्रिंशिका / न प्रकाशयतीति, नृपो राजा यद् यदिच्छति स्वराज्ये तत् तत् करोति स्वतन्त्रत्वात् अथवा नृपपालनीयनियमरक्षणैकपरो निजजनं परजनं वाऽविशेषेण पालयति, शिल्पी चित्रकरः चित्रकर्मणि स्वतन्त्रो यद् यद् मनोहराकृत्यादिकं स्वमनोऽधिरूढं विभावयति तत् तत् पट-भित्यादौ चित्रयति तथेतीदमपि शेषं मुक्तो नोपयोगीस्यर्थः // 13 // शेषस्यैव प्रकारान्तरं दर्शयति स्वभावोऽर्थोऽन्तराभावानियमाव्यभिचारतः। इष्टतोऽन्यदनेनोक्ता देश-कालसमाधयः // 14 // स्वभाव इति / “भावानियमाव्यभिचारतः” इत्यस्य स्थाने "भावनियमाव्यभिचारतः" इति पाठो युक्तः / अर्थः पदार्थः, स्वभावः स्वभावात्मकः, यस्यार्थस्य यः स्वभावः सोऽर्थस्तत्स्वभावात्मक एवेति, तत्र हेतु-अन्तराभावनियमाव्यभिचारतः इति अन्तरास्वभावमन्तरेण अभावोऽर्थस्याभावः स चासौ नियमोऽविनाभावलक्षणव्याप्तिस्तस्याव्यभिचारतोऽवश्यम्भावतः, येन स्वभावेन विना योऽर्थो नोपपद्यते सोऽर्थस्तत्स्वभावरूपः, एवं चोपयोगस्वभावमन्तरेण जीवो नोपपद्यत इत्युपयोगस्वभावो जीवः, रूपादिमत्त्वस्वभावमन्तरेण पुद्गलो नोपपद्यते इति रूपादिमत्त्वस्वभावः पुद्गल इत्यादि सिध्यति, कथं तहि स्वभावव्यतिरिक्तोऽप्यर्थ इत्याकाङ्क्षायामाह-इष्टतोऽन्यदिति इष्टमिष्टिरभ्युपगमस्तस्मादन्यत् स्वभावभिन्नमपि अर्थः, अनेन उक्तप्रकारेण वचनेन, देशकालसमाधयः यस्मिन् देशे यस्मिन् काले यद् वस्तु भवितुमर्हति स देशः, स कालः, चित्तवृत्तिनिरोधलक्षणसमाधिश्च उक्ताः भवन्ति, शाल्यादिप्रभवयोग्योऽयं देशः, आम्रादिफलपरिपाकयोग्योऽयं समयः, अयं च सविकल्पकसमाधिरस्मिन् देशेऽस्मिन् काले कर्तुं योग्यस्तदनन्तरकाले तत्रैव देशे निर्विकल्पकसमाधिरपि भवितुमर्हति तदङ्गानि चासन-प्राणायामादीनि अस्मिन्नेव देशेऽस्मिन्नेव काले सम्पादयतुं शक्यानीत्येवं देश-काल-समाधय उक्ता भवन्तीत्यर्थः // 14 //