________________ दिवाकर कृता किरणावलीकलिता विंशतितमी दृष्टि प्रबोधद्वात्रिशिका / 507 न द्रव्यमद्रव्यं द्रव्यभिन्न साङ्ख्यं कपिलमतानुयाय्यनुमतम् , अन्यथा अन्य प्रकारं द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाभावाः सप्तपदार्थाः तत्र द्रव्यं नवविधं, तत्र पृथिव्यपू-तेजोवायवो नित्या अनित्याश्च आकाशादयश्च नित्यद्रव्याण्येव, गुणाश्च केचिन्नित्याः केचिदनित्याः, कर्म च सर्वमनित्यम् , सामान्य-विशेषसमवायाश्च नित्या एव, अत्यन्ताभावान्योऽन्याभावौ नित्यावेव, प्रागभावो ध्वंसप्रतियोगित्वादनित्यः ध्वंसश्च प्रागभावप्रतियोगित्वादनित्य इत्येवम् , काणादं कणादमुन्यनुमतम् , लोकः चतुर्दशविधः लोकः, पुरुषः कर्तृभोक्तरूपः, इत्येतत् उक्तप्रकारे सर्वम् , अव्यक्तम् मोक्षोपायचिन्तायां वक्तुमनहम् , एतैः प्ररूपितैः संसारावेशहेतूनां दोषाणां हानेरभावात्, तत्र दृष्टान्तमाह-शरोरवदिति शरीरै यथा पाञ्चभौतिकं त्रैभौतिकं पार्थिवं जलीयं ते जसं वायवीयमित्येकभौतिकमिति न वक्तुमहँ मोक्षानुपयुक्तत्वात् तथेत्यर्थः // 12 // शेषान्तरं दर्शयति-- निमित्तेश्वरकारः प्रकाशनृपशिल्पिवत् / यथेष्टसाधनोत्कर्षविशेषापायवृत्तयः // 13 // निमित्तेश्वरक र इति / ' यथेष्टसाधनोत्कर्षविशेषापायवृत्तयः निमित्तश्वरकर्तारः प्रकाशनृपशिल्पिवत्'' इत्यन्वयः / यथेष्टसाधनोत्कर्षविशेषापाय. वृत्तयः यथेष्ट स्वेच्छानुसारि न तु कार्य-कारणनियमपरतन्त्रं यत् साधनं तस्य य उत्कर्षविशेषः कारणान्तरत उत्कर्षवैलक्षण्यं तेनान्यकारणानामन्यथासिद्धवादिना योऽपायानिरासस्तवृत्तयस्तदाचरण शीला:, निमित्तेश्वरकर्तारः निमित्तेश्वरकतवादिनः, उत्तरोत्तर कार्यकुर्वपात् पूर्वपूर्वनिमित्तकारणादेव कार्यमुपजायते किमुपादानादिकारणान्तरकल्पनयेति निमित्तवादिनः, कत्तुमकर्तुमन्यथाकर्तुं च समर्थादोश्वरादेव सर्व कार्यमुपजायते नान्यत् किञ्चन कारणमितीश्वरवादिनः, यो यत् फलमुपभुङ्क्ते सुखी दुःखो च भवति स एव कर्ता कारणमिति कर्तृवादिनः, अत्र दृष्टाम्तमाह-प्रकाशनृपशिल्पिवदिति प्रकाशवत् नृपवत् शिलिवच्चेत्यर्थः प्रकाशयतीति प्रकाश: सूर्यादिः स च प्रकाशकन्वस्वाभाव्यादेव लोकं प्रकाशयति न त्विदं चाण्डलगृहमिदं शूकरा द्यपकृष्टयोनिस्थानमिति न प्रकाशन यमिति परिज्ञाय