________________ 506 दिवाकरकृता किरणावलीकलिता विशतितमी दृष्टप्रिवोधद्वात्रिशिका / स्रग्-चन्दन-वधू-वस्त्रादयो नानात्वेन सुप्रतीतास्तेषां नानात्वं प्रियाप्रियोऽपेक्ष्यभेदेन प्रत्येकं त्रैविध्य, य एवेष्टसाधनत्वादेकस्य प्रियः स एवानिष्टसाधनत्वादन्यस्याप्रियः कस्यचित् पुनः इष्टसाधनत्वाभावानिष्टसाधनत्वाभावोमयवत्त्वादुपेक्ष्यः एकस्यापि पुंसो य एवैकदा प्रियः स एवान्यदाऽप्रियः कदाचित् पुनरुपेक्ष्योऽपि, एवं य एवैकस्य पिता स एवान्यस्य पितामहादिरेवं यैव स्त्री एकस्य माता सैवान्यस्य भार्या स्नुषा ननन्दा चेत्येवंदिशा विषयनानात्वं नानाविधम् , इन्द्रियमानात्वं नानाइन्द्रियस्य ज्ञानेन्द्रिय कर्मेन्द्रिभेदेन द्वैविध्यं, तत्र चक्षुर्घाण-रसन-त्वक्-श्रोत्राणि पञ्चज्ञानेन्द्रियाणि वाक् पाणि-पाद-पायूपस्थानि पञ्चकर्मेन्द्रियाणोति दशविधत्वं, तेषामहङ्कारिकत्वं भौतिकत्वमाविद्यकत्वमित्येवमिन्द्रियनानात्वं नानाविधम्, चेतसो मनोलक्षणस्यान्तःकरणस्याणोनित्यस्य मनस्त्वमेवेत्येकविधत्वम्, बुद्धयहङ्कार-मनोमेदेन त्रिविधत्वं, मनो-बुद्धयहङ्कार चित्तमेदेन चतुर्विधत्वं महत्त्वं चेत्येवं चेतसोऽपि नानात्वं नानाविधम् , अनेन द्रव्यादिनानानात्वनात्वप्ररूपणेन, अहं तत्प्ररूपणकर्तृत्वेनाहन्त्वाभिमानी पुरुषविशेषः, अनीतवान् ग्रन्थान्तरादर्शितविचारेभ्य आनीतः न नीतोऽनीतः अनन्यपरिशीलितो मार्गस्तद्वान् इदमपि शेष परिज्ञायापरिज्ञाय वा न किञ्चित् एतादृशविचारणया संसारकारणदोषहानेरभावेन निर्वाणलक्षणपरमपुरुषार्थाभावादिन्यर्थः // 11 // अन्यदपि शेषमुपवर्णयति-- बौद्धमध्रुवमद्रव्यमांख्यं काणादमन्यथा / लोकः पुरुष इत्येतदवक्तव्यं शरीरवत् // 12 // बौद्धमिति / अध्रुवं ध्रुवं स्थिरं न ध्रुवमध्रुवमस्थिरं स्वोत्पत्तिद्वितीयक्षणेऽपि न वर्तत इति क्षणिक, बौद्धं बुद्धस्य सुगतस्याभिमतम् , 'यत् सत् तत् क्षणिकम्' इति व्याप्तेरर्थक्रियाकारित्वलक्षणसत्त्वेन हेतुना सर्ववस्तूनां क्षणिकत्वं साधयन्ति बौद्धाः, "अद्रव्यसाङ्खयम्' इत्यस्य स्थाने ''अद्रव्य सङ्खयम्' इति पाठः सम्यगाभाति / अद्रव्यं साङ्ख्यं सत्त्व-रजस्तमांसि त्रीणि गुणा:. उक्तगुणत्रयाणां समावस्था प्रकृतिस्त्रिगुणात्मिका तस्य साक्षात् परम्परया वा परिणामस्वरूपं महदहङ्कारादिकं सर्व त्रिगुण, पुरुषस्तु न द्रव्यं नापि गुण इति पञ्चविंशतत्त्वतिम्