________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका। 505 स्वरूपोक्तदोषनाशकोपायविचारणा, संदिग्धो विपरीतोऽसन्दिग्ध इत्यसन्दिग्धप्रतिक्रिया भविष्यत्येवानेनोक्तदोषहानिरित्येवं निर्णयात्मिकोक्तदोषाय परिचिन्तना, वादिभिः स्वस्वमतसमुल्लासकान्थे सुप्रतिष्ठापिताः सन्त्येव, तन्मध्ये तु पुनः, आस्यदुष्टस्य मुस्वगतवागुच्चारणाद्यसामर्थ्यदोषभाजनस्य वक्तुः यावन्मात्रसंक्षिप्तोच्चारणतः श्रोतुर्मोहपोषोपायावबोधो भवति तावन्मात्रोच्चारणबद्धपरिकरस्य, लध्वसंदिग्धविज्ञानं सिद्धयति लघुविज्ञानमसन्दिग्धविज्ञानमुक्तदोषापोहोपायविज्ञानस्वरूपं सिध्यति किन्तु स्वासामर्थ्यवशात् तथाश्रयणं नोक्तदोषविमो. कायालमित्येवम्भूतं शेषं विज्ञायाविज्ञाय वा न किञ्चिदित्यत्रेदम्पर्यमिति // 10 // शेषान्तरमुपदर्शयति द्रव्यसत्त्वादिनानात्वं नानेतिसममात्मनः / विषयेन्द्रियचेतस्यमनेनाहमनीतवान् // 11 // द्रव्येति / द्रव्यसत्त्वादिनानात्वं नाना द्रव्यनानात्वं नानामूर्त द्रव्यं, तत्र पृथिव्यर-तेजो-वायु-मनांसि मूर्त आकाश-काल-दिगात्मानोऽमूर्तमिति नानात्वं, पृथिव्य प्-तेजोवाय्वाकाश-काल-दिगात्म-मनांसि नव द्रव्याणि तत्र गन्धवती पृथिवी, शीत स्पर्शवत्य आप इत्येवमपरं नानात्वम् तथा जीवाजीवभेदेन द्रव्यं द्विविधं, तत्र जावः संसार। मुक्तश्चेत्येवं नानात्वं धर्माधर्माकाशपुद्गलात्मकालाः पञ्चद्रव्याणीत्यादिदिशा द्रव्यनानात्वं नानाविधम् , एवं सत्त्वनानात्वं नानासत्त्वमात्मा तस्य जोवेश्वरभेदेन द्वैविध्यम् , तत्र जीवो जन्यज्ञानावान् नित्यज्ञानवानीश्वरः, जीवोऽपि संसारी राग-द्वेषादिमान् बद्धो मुक्तश्चेत्येवं नानात्वम् , तथै केन्द्रिय-द्वीन्द्रियादिभेदेन नानात्वमित्येवं सत्त्वनानात्वं नाना, आदिपद त् पदार्थनानात्वं नानाभावाभावभेदेन पदार्थो द्विविधः, तत्र द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायभेदेन भाव: षड्विधः प्रागभावध्वंसात्यन्ताभावान्योऽन्याभावभेदेनाभावश्चतुर्विध इति नानात्वं तथा जीवाजोवासव-बन्ध-संवर-निर्जरा मोक्षमेदेन तत्त्वानि सप्त, तत्रैव पुण्य-पापयोः पृथक्तया प्रवेशेन नवतत्त्वानीत्येवंदिशा पदार्थनानात्वं नानाविधम् ‘विषयेन्द्रियचेतस्यम्' इत्यस्य स्थाने "विषयेन्द्रियचेतःस्थम्" इति पाठो युक्तः / आत्मनो विषयेन्द्रियचेतस्थं नानात्वम् , नानेतिसमम् तत्रोपभोगसाधनानि विषयाः