________________ 501 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / न्यस्य कारणत्वं किमिति कल्पनीयम् , कश्चित् सत्त्वः कारणविशेषाभावादलब्ध. जन्माप्यनादिमुक्तो नित्यज्ञानादिमानीश्वरोऽसंसार्येव सर्वदेति सर्वसत्त्वानामवश्यं जन्मकरणं सामान्यमित्ययुक्तमित्यत आह - विकल्पप्रभवं जन्म सामान्यं नातिवर्तते / हेतावपचिते शेषं किं परिज्ञाय वा न वा // 9 // विकल्पप्रभवमिति / यथापाठमेवान्वयः / विकल्पप्रभवं विकल्पो विशेषस्तत्प्रभवं तज्जन्यम् , जन्म मनुष्यादिसत्त्वजन्म, सामान्य जन्मसामान्यम् ,नातिवर्तते अतिक्रम्य न वर्त्तते, म हि विशेषः सामान्यपरिहीनः, सामान्यं वा विशेषविकलम् , तयोरन्योऽन्यप्रतिबद्धत्वात् , यद्विशेषयोः कार्य-कारणभावस्तत् सामान्ययोरपीति न्यायोऽप्यमुमर्थमुपोद्वलयति, एवं च जन्मविशेष प्रति सत्त्वविशेषस्य वस्त्वन्तरविशेषस्य च कार्य-कारणभावे जीवजन्मसामान्य प्रति जीवसामान्यस्य तनियत-तदन्यकारणसामान्यस्य वा कारणत्वमवश्यं स्वीकरणीयमित्यलन्धजन्मा नित्यमुक्तो न सम्भवतीति जन्मकारणसामान्यदोषापक्षतौ मुक्तिरवश्यम्भाविनीति यावद्भिः कारणैर्दोषक्षयस्तावन्त एव मुमुक्षुभिरुपादेयास्तदन्यगवेषणा वृथेत्याशयेनाह-हेताविप्ति संसारवरावेशकारणदोषादावित्यर्थः, अपचिते क्षीणे सति, शेषं दोषापचयप्रयोजकव्यतिरिक्तं, परिज्ञाय वा ज्ञात्वा वा, न वा अपरिज्ञाय वा, किं न किञ्चिन्न हि निष्प्रयोजने मन्दोऽपि प्रवर्त्तते इत्यर्थः // 9 // शेषं कि परिज्ञाय वा नवेति यदुक्तं तत्र तत्तद्धपरिकल्पितमनेकविधं शेषमित्युपदर्शयति गुरु-लाघव-संदिग्धविपरीताः प्रतिक्रियाः / लघ्वसंदिग्धविज्ञानं त्वास्यदुष्टस्य सिध्यति // 10 // गुरु-लाघवेति / दशमपद्यमारभ्य शेषमित्युपपादितमित्यन्तद्वाविंशतितमपद्यकदम्बकेन-गुरु-लाघव-संदिग्धविपरीताः प्रतिक्रिया गुरुभूता प्रतिक्रिया संसारावेशहेतुदोषनाशकोपायालोचना, लाववप्रतिक्रिया लघुभूतोक्तदोषनाशकोपायपरिभावना, संदिग्धप्रतिक्रिया अनेनोकदोषनाशो भविष्यति न वेत्येव संदित्यमान