________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिशिका / 503 यथाप्रकारा यावन्तः संसारावेशहेतवः / तावन्तस्तद्विपर्यासा निर्वाणावाप्तिहेतवः // 7 // यथेति / अत्र ययाऽनुपूर्व्या पदानां विन्यासस्तथैवान्वयः / यथाप्रकाराः संसारोपचयानुकूलयादृशप्रकारवन्तः, यावन्तः यावत्संख्यकाः, संसारावेशहेतवः संमारावश्यम्भावसाधनभूता राग-द्वेषादयः, तावन्तः तावत्सङ्ख्यकाः, तद्वि. पर्यासाः संसारावेशनिबन्धनविपरीता वैराग्याद्वेष-मैत्री-करुणादयः, निर्वाणावाप्तिहेतवः मोक्षप्राप्तिजनका इत्यर्थः // 7 // पूर्व संसारी सन्नेव मुक्तो भवति जोवो न तु नित्यमुक्तः कश्चिदिति सादेर्मोक्षस्य कारणमवश्यमुपादेयमिन्य भिसन्धाने सामान्य संसारकारणभुपदर्शयति सामान्यं सर्वसत्तानामवश्यं जन्मकारणम् / शरीरेन्द्रियभोगानामविशिष्टं सद् विशिष्यते // 8 // सामान्यमिति / “सर्वसत्त्वानामवश्यं जन्मकारणं सामान्यं शरीरेन्द्रियभोगानामविशिष्टं सद्विशिष्यते" इत्यन्वयः / सर्वसत्त्वानां सर्वप्राणिनाम् , अवश्य नियमेन, जन्मकारणम् अपूर्व देहेन्द्रियादिसम्बन्धलक्षणस्य जन्मनो निमित्तम् , सामान्यम् अनुगतस्वरूपसदोषजीवत्वादिकं, शरोरेन्द्रियभोगानामविशिष्टं सद्विशिष्यते कस्यनिज्जन्तोः शरीरं मन्महत्तर-महत्तमपरिभाणवद् सवलि कस्यचित् पुनः ह्रस्व-ह-तर-ह्रस्वतमपरिभाणवद् भवति एवं कस्यचिद् विकृतं कस्य चिदविकृतमित्यादि नानाप्रकारमुपलभ्यते, एवं कस्यचिजन्तोरे कमेवेन्द्रियम्, कस्यचिद् द्वे इन्द्रिये, कस्यचित् त्रीणीन्द्रियाणि, कस्यचिदिन्द्रिय चतुष्टयम् , कस्यचित् पुनः पञ्चेन्द्रियाणीन्येवं नानाप्रकारमुपलभ्यते, देवगतौ यादृशो भोगस्ततोऽन्यादृशो भोगो नरकगतो, ताभ्यामन्यादृशो भोगस्तियंग्गतौ तेभ्योऽप्यनादृशो भोगो मनुष्यगतावित्येवं नानाप्रकारो भोगो भवति तद्वैचित्र्यनिबन्धनविचित्रकर्मसम्बन्धतः सामान्यमपि जन्मकारणं विशिष्यते विशिष्टं भवतीत्यर्थः // 8 // ननु मनुष्यगतिः जन्मकारणविशेषाद् भवति ततोऽन्यत् तिर्यग्गत्यादि जन्मविशेषास्तत्तत्कारणविशेषेभ्यो भवन्तीति विशिष्यकार्य-कारणभावविश्रान्ती सामा