________________ 502 दिवाकरकृता किरणावलीकलिता विशतितमी दृष्टिप्रबोधद्वात्रिंशिका / विवादावश्यम्मावेन मुक्तयङ्गनालिङ्गनप्रभवसुखमित्यर्थः, अथवा यथार्थपरिज्ञानवतामयायथार्थपरिज्ञानवतां च दोषाः सम्भवन्त उपलभ्यन्त इति न यथार्थपरिज्ञानतोऽयथार्थपरिज्ञानतश्च दोषशान्तिः किन्त्वन्यत एवेत्याह-न यथार्थपरिज्ञानादिति, यथोपलब्ध एवायं पाठ आदरणीयः, यथार्थपरिज्ञानाद् दोषशान्तिन भवति, अन्यथा अयथार्थपरिज्ञानाद् दोषशान्तिर्न वा नैवेत्यर्थः, हि यतः, तद्वतां यथार्थपरिज्ञानवतामयथार्थपरिज्ञानवतां च, प्रकोपसामान्याव्यभिचारात् प्रकोपेन सह समस्तुल्यः सामान्याव्यभिचारः सामान्यतोऽव्यभिचारः प्रकोपसमसामान्याव्यभिचारस्तस्मात् कस्मिंश्चिद् यथार्थपरिज्ञानवति पुरुषविशेषे कस्मिंश्चिदयार्थपरिज्ञानवति पुरुषविशेषे च प्रकोपस्याभावे विशेषतोऽव्यभिचारेऽपि सामान्यतो न व्यभिचार इत्यावेदनायाव्यभिचारे सामान्येति विशेषणमित्यर्थः // 5 // कीदृशेन यथार्थपरिज्ञानेन दोषशान्तिः, अथवा सामान्यतो यथार्थ परिज्ञानमयथार्थपरिज्ञानं वा यदि न दोषशान्त्युपायस्तर्हि कस्तदुपाय इत्याकाङ्क्षायामाह येन दोषा निरुध्यन्ते ज्ञानेनाचरितेन वा / स सोऽभ्युपायस्तच्छान्तावनासक्तमवेद्यवत् // 6 // येनेति / 'येन ज्ञानेन येनाचरितेन वा दोषा निरुभ्यन्ते तच्छान्तौ स सोऽभ्युपायोऽनासक्तमवेद्यवत्' इत्यन्वयः / येन यादृशेन, ज्ञानेन इष्टसाधनेऽनिष्टसाधने च शत्रौ मित्रे च न किञ्चिद्धितमहितं वाऽनेन मम कृतं यत् किञ्चिदुपनतं मम सुखं दुःखं वा तत्पूर्वजन्मकृतेन स्वकीयेन पुण्येन पापेन वा कर्मणेत्यायाकारकज्ञानेन, वा अथवा, यादृशेन आचरितेन हिताहितशत्रुमित्रादिष्वविशेषेण हितोपदेशादिदानादिलक्ष् णप्रवृत्त्यादिना, दोषाः काम-क्रोध-लोभ मोहाः, निरुध्यन्ते निरुद्धा भवन्ति, तच्छान्तौ दोषशान्तौ, स सोऽभ्युपायः तत् सर्वं ज्ञानमाचरणं च निमित्तम् , अनासक्तमवेद्यवत् वेदनीयकर्म फलसुखदुःखादिकं भुञ्जानस्यापि पुरुषधोरेयस्य कामिनी-काञ्चनादिविषयेष्वनासक्तमासक्ति रहितं चित्तं वेद्यरहितमिवेत्यर्थः // 6 // संसारकारणदोषोपशान्तौ निर्वाणकारणस्य तद्विपययस्य लाभतोऽवश्यं निर्वाणावाप्तिरित्युपदिशति