________________ दिवाकरकृता किरणावलीकलिता विशतितमो दृष्टिप्रबोधद्वात्रिशिका / 501 किं न सिद्धयेत्, एवं चे प्रमाणं प्रमाणाभासं वा प्रमाणतयोररीकृत्यैव प्रमेयसिद्धयर्थं वादे प्रयुञ्जते वादिनः, न चैवं प्रमाणसिद्धं वस्तु सर्वसिद्धमेव भवतीति तत्र प्रामाणिकानां विवादो निर्निबन्धन एव स्यादित्यत आह-संज्ञेति, तपस्विनस्तु शास्त्रनिरन्तराभ्यासाध्यापनादिलक्षणतपोनिरता विद्वांसः पुनः, संज्ञाऽभिप्रायभेदात् संज्ञाभेदात् मुक्तेः शिववर्त्म-ध्रुवाध्वेत्यादिनाममेदाज्जगतो मूलकारणम्य प्रकृतिप्रधानसहकारिशक्तिमायाऽविद्याऽपूर्वादृष्टेत्यादिनाममेदात् सदेव जगत्प्रकृत्योपजायते असदेव कार्य कारणसामग्रीतो भवति, अनिर्वचनीयमेव विश्वमनिर्वचनीयया माया भवतीत्यादिताप्तर्यभेदात्, विवदन्ति परस्परं स्वपक्षस्थापन-परपक्षखण्डनात्मकविचारं कुर्वन्ति केवलं नाम्नि विवादात् तात्पर्यमात्रे विवादाद् वस्तुनो न किञ्चिदपचीयते नोपचीयते वा प्रमाणराजस्याद्वादतः सर्वस्यव पक्षस्याने कान्तात्मके वस्तुन्युपपन्नत्वादित्यर्थः // 4 // परस्परमतविद्वेषलक्षण प्रकोपादेव विवादो भवति तादृशप्रकोपशान्तिश्च विवादाभावहेतुर्न यथार्थज्ञानमन्तरेणेति यथार्थपरिज्ञानार्थं मुमुक्षुभिर्यत्नो विधेय इत्याशयेनाह न यथार्थपरिज्ञानाद् दोषशान्तिन वाऽन्यथा / प्रकोपसमसामान्याव्यभिचाराच्च तद्वताम् // 5 // न यथार्थति / “यथार्थपरिज्ञानात्" इत्यस्य स्थाने 'यथार्थापरिज्ञानात्" इति पाटो युक्तः / “दोषशान्तियथार्थापरिज्ञानान्न, अन्यथा तद्वतां प्रकोपसमसामान्याव्यभिचाराच्च न वा” इत्यन्वयः / यथार्थापरिज्ञानाद् वस्तुगत्या यथाविधं वस्तु तथा तद्वस्तुनः परितः सर्वप्रकारेण ज्ञानं यथार्थपरिज्ञानं तदन्तरेण, दोषशान्तिः दोषाणां काम-क्रोध-लोभ-मोहानां शान्तिर्विनाशः, न नैव भवति, चकारी होत्यस्यार्थे, हि यतः, अन्यथा यथार्थ परिज्ञानाभावे, तद्वतां यथार्था परिज्ञानवतां पुरुषाणाम् , प्रकोपसमसामान्याव्यभिचारात् प्रकोपस्य समः तुल्यो यः सामान्याव्यभिचारः यत्र प्रकोपस्तत्र यथार्थापरिज्ञानं, यत्र यथा परिज्ञानं प्रकोप इत्येवं तत्र सामान्यतोऽव्यभिचारो नियमो व्याप्तिरिति यावत् , तस्मात् यथार्थापरिज्ञानवतां पुंसां, न वा नैव दोषशान्तिः ततश्च दोषमूलक