________________ 500 दिवाकरकृता किरणविलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / वागिति / वाचिकित्सितमानाध्वमणिरागादिभक्तिवत् वागादीनां भक्त्या सहान्वयः, भक्तिर्विभजन, इयं वाक् सत्या, मिथ्या चेयमित्येवंवारविभजनं, इयमस्य रोगस्य चिकित्सा अनया चिकित्सयाऽस्य रोगस्यापनयनमित्येवं चिकित्सितविभजनम् अस्मिन्नर्थे इदं प्रमाणमिदं चात्रार्थे इति, अगुलमानमिदं रत्निमानमिदमिति वा मानविभजनम्, अयं मार्गः स्वर्गस्यायं च नरकस्येत्यादि काश्यां गमनेऽयं पन्थाः प्रयागगमने चार पन्था इत्यादि वाऽध्वविभजनं, अयं मणिरागः पद्मरागमणिश्चायं नीलमणिश्चायमित्येवं मणिरागादिविभजनं यथाप्रयोजनादिभेदेन तथा क्वचिच्छास्त्रे अन्यशास्त्रोक्तनानात्ववत्यप्यर्थे नानात्वस्यानुक्तिः, क्वचित् पुनः शास्त्रान्तरप्रतिपातैकत्ववत्यपि वस्तुन्येकन्वस्याकथनं, क्वविच्च ग्रन्थान्तरप्रतिपाच नानात्वैक्यो भवत्यपि च तदुभयानुक्तिरित्येवम् नानात्वैक्योभयानुक्तिः भवति, विषमं किन्तु, अर्थतः स्याद्वादाकलितानेकान्तात्मकार्थतः, समं तुल्यम्, सर्वेषां शास्त्राणामभिधेया नानेकान्ततामन्तरेणोपान्ना इति किं वृत्तचिद्विधिरपेक्षितैव यत्र नानात्वस्यैवोक्तिस्तत्र कथञ्चिदर्थप्रवेशावश्यम्भावे तबलादनुक्तमप्येकत्वमायात्येव, एवं नानात्वानुक्त्युभयानुक्तिस्थलेऽपीत्यर्थः // 3 // प्रस्थानभेदाच्छास्त्राणां मेदोऽभिप्रायादिभेदाच्च वादिनामन्योऽन्य विवाद इत्याह प्रमाणान्यनुवर्तन्ते विषये सर्ववादिनाम् / संज्ञाभिप्रायभेदात् तु विवदन्ति तपस्विनः // 4 // प्रमाणानीति / “सर्ववादिनां विषयेऽनुवर्तन्ते प्रमाणानि, तपस्विनस्तु संज्ञाभिप्रायभेदाद् विवदन्ति” इत्यन्वयः / सर्ववादिनां कपिल-पतञ्जलि-कणभुगक्षपाद-जैमिनि द्वैपायन-बुद्ध-बृहस्पति-जिनानुयायिनां वादिनां, विषये स्वस्वाभ्युपगतशास्त्राभिधेयतत्त्वे, प्रमाणानि प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुपलब्धिसम्भवैतिह्यचेष्टाद्यन्यतमप्रमाणानि तत्तद्वादिमतप्रतीतानि अनुवर्तन्ते प्रसिद्धयर्थं प्रवर्तन्ते यो विषयो यत्प्रमाणगोचरस्तस्मिन् विषये तत्प्रमाणप्रवृत्तिमन्तरेण सत्तैव न सिद्धयति, प्रमाणाधीना प्रमेयसिद्धिरित्यविगानेनोपयन्ति प्रामाणिकाः, शून्यवादिनोऽपि प्रामाणिकानां परिषदि प्रवेशः सांवृत्तमपि प्रमाणसत्त्वमभ्युपेत्यैव, अन्यथा पूर्णतैव विश्वस्य