SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलोकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिशिका / 499 प्रतिक्षिपत एकान्तवादिन इति तदर्थः, अपायापोहतो वा सत्कार्यवादोऽसत्कार्यवादो नित्यत्ववादोऽनित्यत्ववादो अस्तित्ववादो नास्तित्ववाद इत्येवं बहुविधो वा चादिवादः स्वरूपतः प्रतिक्षेप्नुमशक्यः, सर्वस्यापेक्षामेदेनोपपन्नत्वात् किन्तु अपायस्य सद्बोधप्रतिबन्धकत्वेन विघ्नरूपस्यापेक्षाविनिर्मोकलक्षणैकान्तस्य, अपोहतो निराकरणतः, वेति विकल्पे, ग्रन्थार्थः एकान्तत्वापगम एव स्याद्वादरूपस्यापेक्षाभेदेन सदसत्कार्यादिप्रतिपादकग्रन्थस्यार्थः प्रयोजनम् , वा अथवा, तदेव सापेक्षमन्योऽन्यमेव, ग्रन्थार्थः कोदशो ग्रन्थार्थ इत्याकाङ्क्षायामाह-विध्युपायविकल्पतः सत्कार्यत्वादेर्यो विधिरस्तित्वेन स्थापनं तस्य यः उपायो निमित्तं तस्य यो विकल्पः विविधः कल्पः एतदपेक्षयोत्पत्तितः प्राक् कार्यस्य सत्त्वमित्यादिस्तस्मात्, स्व-परान्वर्थः स्वस्य वादिनः परस्य प्रतिवादिनोऽन्वर्थः मतमाश्रित्यानुकूलोऽर्थस्तत्त्वम् , यादृशाभ्युपगमेन स्व-परपक्षावुभावप्युपद्येते तादृशः स्याद्वादाकलितसत्कार्यत्वादिर्ग्रन्थार्थ इति मुकुलितोऽर्थः, अथवा मीमांसक-नैयायिकौ बौद्धकापिलौ चैत्र-मैत्री शास्त्रार्थ कुरुतः, त्वमनेन सह शास्त्रार्थ कुरु, कृतश्चानेन शास्त्रार्थ इत्यादिर्व्यवहारो भवति, तत्र कः शास्त्रार्थ इत्याकाङ्क्षायामाह-अपायापोहत इति, यस्य कस्यापि निश्चयोऽपायो भवति, प्रकृते स्वपक्षनिश्चयः, अपोहो निषेधः प्रकृते परपक्षनिराकरणं तत: स्वपक्षस्थापन-परपक्षनिराकरणाभ्यां, अन्योऽन्यं वादि-प्रतिवादिस्वरूपकथाकर्तुः परस्परं निन्नतः प्रतिक्षिपतः, वा ग्रन्थार्थः शास्त्रार्थों भवति, वा अथवा, तदेव परसारकर्तृ कस्वपक्षस्थापन-परपक्षखण्डनमेव ग्रन्थार्थः, स विध्युपायविकल्पतः विधेः परपक्षस्वरूपस्य उपायस्य तद्विधाननिमित्तस्य च ये विकल्पाः अवान्तरप्रकाराः सम्भावनापथमुपनीताः इदं वा कार्यस्य सत्त्वमिदं वा अयमस्योपायोऽयं वेत्यादयः ततस्तेभ्यः, स्वपरान्वर्थाः स्व-परग्रन्थाभ्युपेयार्थः स्वसिद्धान्त-परसिद्धान्तानपेतार्थः अपसिद्धान्तादिदोषरहित इत्यर्थः // 2 // समानार्थानामपि शास्त्राणां विन्यासवैचित्र्येण वैचित्र्यमुपदर्शयतिवाकचिकित्सितमानाध्यमणिरागादिभक्तिवत् / नानात्वैकयोभयानुक्तिविषमं सममर्थतः // 3 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy