________________ 198 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिंशिका / "स्वतोऽनुवृत्ति-व्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः / परात्मतत्त्वादतथात्मतत्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति // 1 // " इति / सामान्यं चोर्ध्वतासामान्य-तिर्यक्सामान्यमेदेन द्विविधम् , तत्र पूर्वोत्तरपर्यायप्रवाहानुगतं मृदादिद्रव्यमेवोलतासामान्यं, विभिन्नदेशव्यवस्थितानेकघटादिव्यक्तिगतसमानपरिणामलक्षणं घटत्वादिकं तिर्यक्सामान्यं पर्याय एवेति, तथा च उत्पादश्च विगमश्च ध्रौव्यश्च द्रव्यं च पर्यायाश्चोत्याद-विगम-ध्रौव्यद्रव्यपर्यायास्तेषां सक्षेपेण ग्रहणं निरूपणं सङ्ग्रहो यत्र शासने तत् उत्पाद-विगमध्रौव्यद्रव्यपर्यायसंग्रहम् , निरूपणं चोद्देशलक्षणपरीक्षात्मकम् , तत्र नाममात्रेण वस्तुकथनमुद्देशः, असाधारणधर्मो लक्षणं, तच्च व्यवहृतिफलकं, इतरभेदानुमितिफलकं वा, अव्याप्त्यतिव्याप्त्यसंभवदोषनिराकरणपरमिदं सम्भवति नवेति शङ्कासमाधानस्वरूपविचारः परीक्षा अथवा परमनिराकारणपूर्वकस्वमतव्यवस्थापन परीक्षा, अतिविस्तृतमपि वर्धमानजिनशासनं वस्तुध्वनन्तानामनभिधेयपर्यायाणां सद्भावान्न विशेषतस्तदभिधानप्रगल्भमिति, संक्षिप्तग्रहणमेवेति सङ्ग्रहमित्युक्तम् यावतांशेनोत्पादादिग्रहणप्रवणं शासन तावतांशेन परिपूर्णमेव तत् एवंविधत्वं च न शासनैकदेशस्येति, कृत्स्नमिति सम्पूर्णमित्यर्थः, शासनं मुक्तिमार्गोपदर्शकं शास्त्रम् अध्याहृतस्य जयतीति, क्रियापदस्य सर्वाण्यागमातिशायित्वेन सर्वो. त्कर्षेण वर्त्तत इत्यर्थः // 1 // वर्धमानजिनशासनस्यानेकान्तवादस्याभिधेयमुत्पादादिलक्षणमुक्त्वा तत्प्रयोजनमुपदर्शयति अपायापोहतोऽन्योऽन्यं हन्यतो वा तदेव वा / ग्रन्थार्थः स्व-परान्वर्थों विध्युपायविकल्पतः // 2 // अपायापोहत इति / “अन्योऽन्यं हन्यतोऽपायापोहतो वा ग्रन्थार्थः, तदेव वा ग्रन्थार्थः विध्युपायविकल्पतः स्व-परान्वर्थः” इत्यन्वयः / अन्योऽन्यं परस्पर पक्ष, 'हन्यतः' इत्यस्य स्थाने 'निघ्रतः' इति पाठो युक्तः / निघ्नतः