________________ दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टिप्रबोधद्वात्रिशिका / 497 दिष्वपि, द्रब्यादिषु. समवायेन वृत्तेमुंख्या सा, सामान्यादिषु स्वाश्रयसमवायादिपरम्परासम्बन्धेन वृत्तेरुपचरिता सेति तु सामान्यादिषु समवायेन वृत्तेर्मुख्या सा, द्रव्यादिषु स्वाश्रयवत्त्वसम्बन्धेन वृत्तेरुपचरितेत्येवमपि वक्तुं शक्यतया विनिगमनाविरहात कल्पना दुष्कल्पनैव, समवायो द्रव्यादिष्वेव त्रिषु वर्तत इत्यत्र च न किञ्चन्नियामकम् , अविष्वग्भावव्यतिरिक्तं च समवायः सम्मतिवृत्त्याद्याकरग्रन्थेषु प्रतिषिद्ध एव / वेदान्तिना च पारमार्थिक-व्यावहारिक प्रातीतिक. भेदेन त्रिविधं सत्त्वमुक्तं, तत्र ब्रह्म सदितिप्रतीतौ कालत्रयाबाध्यत्वलक्षणं पारमार्थिकसत्त्वं विषयः, घट: सन् पटः सन्नित्यादिप्रतीतौ व्यवहार कालाबाध्यत्वलक्षणं सत्त्वं विषयः, प्रातीतिकशुक्ति-रजतादिविशेष्यकसत्त्वप्रकारकप्रतीतौ प्रतीतिकालाबाध्यत्वलक्षणं प्रातीतिकसत्त्वं विषय इत्युपगमे एका सर्वानुगता सत्त्व नास्ति, अननुगतानां च तासां नानुगत सत्सदितिप्रतीतिनिमित्तत्वविषयत्वे इति उत्पाद-व्यय-ध्रौव्यात्मकत्वमेव सत्त्वम् , तदभिसन्धानेनैव भगवता श्रीउमास्वातिना “उत्पाद-व्यय-ध्रौव्याक्तं सत्" इति सत्त्वलक्षणप्रतिपादकं सूत्रं निबद्धमिति युक्तं सत्त्वलक्षणभावमुपगतानामुत्पाद-विगम-ध्रौव्याणां प्रथमत उपदर्शनम् , तत्रोत्पाद-विगमौ पर्यायौ पर्यायाथिकनयाभिमतौ ध्रौव्यं च द्रव्यमिति द्रव्यार्थिकनयाभिमतमित्यभिसन्धानेनोत्पाद-विगमयोङ्ग्रौव्यस्य चाभिधानमुत्पाद-विगम-ध्रौव्येत्येवंरूपेण, न सु उत्पाद विग़मयोर्मध्ये ध्रौव्यस्योक्तिः, द्रव्यं पूर्वापर पर्यायानुगतमेकं नित्यम् , गुण-पर्यायवत्त्वं द्रव्यस्य लक्षणम् , यद्यपि गुणोऽपि पर्याय एव, तथापि सहभावी धर्मो गुणः क्रमभावी पर्याय इत्येवं पर्यायस्य द्वैविध्यमाश्रित्य द्रव्यलक्षणे तयोः पार्थक्येनाभिधानम् , पर्यायो नाम धर्मः, स द्विविधः सहभावी क्रमभावी च, तत्र सहभावी गुणः, जोवस्य उपयोगादिः अजीवस्य पुद्गलादेर्वर्ण-स्पर्शादिः क्रमभावी क्रियादिः पर्यायसामान्यशब्देनैवाभिधीयते, उपयोगस्य मत्यादयो वर्णादेश्च नीलादयः क्रमभाविनः पर्याया एव, द्रव्यं च जीवाजीवभेदेन द्विविधम् , तत्र जीवः संसारी मुक्तश्च, अजीवो धर्माधर्माकाश-पुद्गल-कालभेदेन पञ्चविधः, आद्याश्चत्वारोऽस्तिकायाः जीवोऽप्यस्तिका यः कालस्त्वस्तिकायो न भवति, सामान्यविशेषौ न पदार्थान्तरं, किन्त्वनुगतबुद्धिविषयत्वाद् व्यावृत्तबुद्धिविषयत्वाच्च जीवादय एव सामान्य-विशेषोभयस्वभावाः, उक्तं च हेमसूरिणा