________________ 196 दिवाकरकृता किरणावलीकलिता विंशतितमी दृष्टि प्रबोधद्वात्रिंशिका / मेदेनाप्युत्पादादित्रयसम्भवो न वस्तुमात्रे, यतोऽनादिस्थितिकोऽपि प्रागभावो विनश्यत्येव प्रतियोग्युत्पादतः न तु तदुत्तरकालमवतिष्ठते, उत्पद्यते तु न कदाचिदपि, एवं ध्वंसः पूर्वमसन्नेवोत्पद्यते, न च कदाचिदपि विनश्यति नित्यद्रव्य-नित्यगुणसामान्य-विशेष-समवाया भावा अभावावत्यन्ताभावान्योऽन्याभावौ नोत्पद्यन्ते नापि विनश्यन्ति केवलं सदाऽवतिष्ठन्त्येव, ननु कपालादेविनाशोऽन्य एव मृद्रपावस्थानमपि घटादन्यदेव, घटस्य तु प्रथमक्षणे उत्पाद एव केवलमिति स्याद्वादेऽपि नोक्तत्रयाणामेकत्र सङ्घटनमिति चेत् स्याद्वादानवबोधविजम्भितमेवैतत् , यतः सदसत्कार्यवादे स्याद्वादे द्रव्यमुत्तरोत्तराखिलपर्यायानुगतं तदविष्वग्भूतं वस्तु भवति यथा मृत्पिण्डकपालिकाकपालघटमृच्छकलचूर्णादिसकलपर्यायैः सह भिन्नाभिन्नाऽनुगता मृव्यमिति स्वाभिन्नमृद्दव्यरूपेणोत्पत्तितः पूर्वकाले विनाशानन्तरं च घटोऽवतिष्ठन्नेव पृथुबुध्नादरायाकारोत्पादकालेऽप्यवतिष्ठत इति मृद्दव्यरूपेण ध्रौव्यरूपता तस्य, विनाशो नातिरिकाभावात्मा, किन्तूत्तरोत्तरपर्याय एव पूर्वपूर्वपर्यायविनाश इति घटात्मकपर्याय एव कपालपर्यायध्वंस इति भवति कपालात्मना घटो विनाश इति तेषां चोत्पाद-विगम-ध्रौव्याणां तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेनोत्पादाभिन्नघटाभिनत्वेन विगम-ध्रौव्ययोरुत्पादाभिन्नत्वं विगमाभिन्नघटाभिन्नत्वेनोत्पाद-ध्रौव्ययोर्विगमभिन्नत्वं ध्रौव्याभिन्न घटाभिन्नत्वेनोत्पादविगमयोध्रौव्याभिन्नत्वमित्येवं परस्पराभिन्नत्वमुत्सदत्व-विगमत्व-ध्रौव्यात्वधर्मैश्च परस्परभिन्नत्वमिति ये चात्माकाशपरमावादयो नित्यास्तेषामपि स्वस्वरूपद्रव्यरूपेण नित्यत्वं स्वस्वपर्यायस्वरूपेणोत्पाद-विगमरूपत्वादनित्यमित्येवं वस्तुमात्रस्य जैनमते प्रतिक्षणमुत्पाद-विगम-ध्रौव्यरूपत्वम् / ननु भवतूकदिशा जैनमते मातान्तरतो विशेषः, सन्ति बहवो विशेषास्तत्र, तान् विशेषान् प्रथमतोऽनुपदर्योत्पादविगम-ध्रौव्याणामेव प्रथमत उपदर्शनं विपर्ययमिति चेत् , इदमत्र समाधानम्प्रमाणाधीना प्रमेयव्यवस्थितिः सदेव प्रमाणं सत्येव वस्तुनि प्रवर्त्तते, नासत् प्रमाणं नासति प्रवर्तत इति एवं च सत्त्वस्य प्रथमोपदर्शनव्यवस्थितौ नैयायिकायभिमतसत्तासामान्यस्वरूपं तन्न वाच्यं, यतो द्रव्यगुणकर्मस्वेव साऽङ्गीकृता न सामान्यादिपदार्थान्तरेषु, कथं च तथा स्यात् , सत्सदित्यनुगतप्रतीतिहि सत्ता, निमित्तकासत्ता विषयिणीसत्ता साधिका सा यथा द्रव्यादिषु त्रिषु तथा सामान्या