________________ विंशतितमी दृष्टिप्रबोधद्धात्रिंशिका / नानानयसमुद्गारानेकान्तवचनामृतम् / यस्मादुद्गतमाप्तं तं वीरं नौमि जिनेश्वरम् // 1 // सर्वदर्शनसाम्राज्याधारं स्याद्वादसेवकम् / सूरीशं नेमिसूर्याख्यं गुरुं नौमीष्टसिद्धये // 2 // गूढार्था विंशतितमी येयं द्वात्रिंशिका वरा / सूरिावण्यसंज्ञस्तां विवृणोति यथामति // 3 // प्रमाणमूर्द्धाभिषिक्तं स्याद्वादलक्षणं वीरस्य शासनं सर्वतत्त्वोपदेशरूपतया सर्ववादेभ्यः प्रकृष्टतममिति दर्शयति उत्पाद-विगम-ध्रौव्य-द्रव्य-पर्यायसंग्रहम् / कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनम् // 1 // उत्पादेति / "श्रीवर्द्धमानस्य वर्द्धमानस्य उत्पाद-विगम-ध्रौव्य-द्रव्य-पर्यायसंग्रह कृत्स्नं शासनम्" जयतीतिक्रियाध्याहारेणान्वयः / श्रीवर्धमानस्य ज्ञानादिलक्ष्म्या जन्मत उत्तरोत्तरं वृद्धथैकभाजनस्य, वर्धमानस्य वर्धमाननाम्नोऽपश्चिमतीर्थङ्करस्य वर्तमानतीर्थाधिपतेः, उत्पाद-विगम ध्रौव्य-द्रव्य-पर्यायसंग्रहम् इति यद्यपि नैयायिकादिभिरपि प्रथमक्षणे घटादिरुत्पद्यते द्वितीयादिक्षणेऽव. तिष्ठते मुद्गरपातादिकारणसम्पत्तौ सत्यां विनश्यतीत्येवमुत्पादविगमध्रौव्यसङ्कलनं परमतेऽप्यस्ति तथापि यस्मिन् क्षणे यस्योत्पादस्तस्मिन्नेव क्षणे तस्य विलयस्तथा कालत्रयवृत्तित्वलक्षणं ध्रौव्यं चेत्येवं वस्तुमात्रे प्रतिक्षणमुत्पाद-विगम- ध्रौव्यस चटनं नैकान्तवादे श्रीवीरजिनवरदर्शितेऽनेकान्तवादे स्याद्वादे तु यस्मिन्नैव क्षणे पृथुबुध्नोदराद्या कारसमानपरिमाणादिलक्षणतिर्यगसामान्यघटत्वादिरूपेण घटादिरुत्पद्यते तस्मिन्नेव क्षणे कपालादिपूर्वपर्यायात्मना विनश्यति तदानीमेव च मृत्पुद्गलादिस्वद्रव्यात्मनाऽवतिष्ठत इत्येवमपेक्षाभेदेनेकदाऽप्येकत्रापेक्षाभेदेनोत्पाद-विगम-ध्रौव्यसङ्गमनं भवति, परमते तु घटादिप्रतिनियतवस्तुन्येव काल