________________ 194 दिवाकरकृता किरणविलीकलिता एकोनविंशतितमी द्वात्रिशिका / . तत्त्वसाधनप्रक्रियामुपसंहरतिप्रतीत्य प्रतिसंख्याय द्रव्यव्यजनपर्ययात् / समग्रविकलादेश-निषेधाभ्यां च साधयेत् // 31 // - प्रतीत्येति / "द्रव्यव्यञ्जनपर्ययात्" इत्यस्य स्थाने "द्रव्य-व्यञ्जनपर्ययान्" इति पाठो युक्तः / द्रव्य-व्यञ्जनपर्ययान् द्रव्यं पूर्वोत्तरपर्यायानुगतं मृत्सुवर्णादिकमूवतासामान्यं, व्यञ्जनं शब्दप्रवृत्तिनिमित्तं विभिनदेशानुगतं समानाकारपरिणामस्वरूपं घटत्वादितिर्यकूसामान्यं, पर्ययो विशेषः घट-शरावोदञ्चनादिः कटक-केयूरादिश्च सहभावि-क्रमभाविमेदेन पर्ययो द्विविधः . तत्र सहभाविपर्ययो गुण इत्यभिधीयते, क्रमभाविपर्ययं पर्याय इत्येवोच्यते, तान् द्रव्य-व्यञ्जनपर्ययान्, प्रतीत्य अपेक्षया, परिसंख्याय सर्वतोभावेन निश्चित्य, इदमेतदपेक्षयोलतासामान्यमिदमेतदपेक्षया तिर्यक्सामान्यमयमेतदपेक्षया पर्याये इत्येवं प्रतीत्य परिसंख्याय स्वस्खनिमित्तापेक्षया स्वस्खासाधारणस्वरूपेण निर्णयेनेति यावत्, द्रव्यव्यञ्जनपर्ययानित्यस्य, साधयेदित्यनेनान्वयः, साधनस्य कथं भावाकाङ्क्षानिवृत्तये त्वाह-समनविकलादेश निषेधाभ्यां चेति समग्र च विकलश्च समग्रविकलौ-आदेशश्च निषेध चादेश-निषेधौ समग्र विकलयोरादेश-निषेधौ समग्रविकलादेश-निषेधौ ताभ्यां समप्रस्यानन्तधर्मात्मकानेकान्तस्वरूपस्य द्रव्यादेरादेशः स्यात्पदघटितवाक्येन सप्तभङ्गयात्मकेन प्रतिपादनं, विकलस्य खस्खनिमित्तानपेक्षकान्तद्रव्यादिस्वरूपस्य निषेधः एवम्भूतं द्रव्यादिकं नास्त्येवेति प्रतिषेधः ताभ्यां स्वपक्षस्थापनपरपक्षखण्डनाभ्यां द्रव्य-व्यञ्जनपर्यायाणां साधनं सुदृढं भवतीत्यर्थः // 31 // . [ अतः परमेकं पद्यं त्रुटितं प्रतिभाति / ] एकोनविंशतितमी दुरूहार्थेकबोधिका / द्वात्रिशिकेयं व्याख्याता लावण्येनास्तु मोददा / / इति एकोनविंशतितमीद्वात्रिंशिकायाः व्याख्या समाप्ता /