________________ दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिशिका / 493 वादिनोऽपि समानम्, तत्र हेतुः अनुक्तेऽप्यपवर्गतः इति आत्मनो जीवेश्वरभेदेन द्वैविध्यमभ्युपगच्छन्तो नैयायिकादयः, ईश्वरस्यानादिमुक्तत्वं स्वीकुर्वन्ति, एवं चेश्वरेऽनुक्तेऽपि आवरणकर्मलक्षणाञ्जनलेपरहितेऽप्यपवर्गभावात् सर्वे जीवात्मानोऽपवृज्यन्ते आत्मत्वादीश्वरात्मवदित्यनुमानेन सर्वमुक्तिसिद्धेः सत्त्वोच्छेदभयं तेषामपि स्यादेव, एवं क्षणिकविज्ञानसन्ततिस्वरूपात्मवादिनां बौद्धानामपि चरमस्य विज्ञानक्षणस्यानुक्तस्यैव मुक्तस्तदृष्टान्तेनान्यस्यापि विज्ञानक्षणस्याशेषस्य मुक्तिप्राप्तौ विज्ञानसन्ततिलक्षणसत्त्वोच्छेदभयतुल्यमेवेत्यर्थः एतच्चाभ्युपगमवादेनोक्तम्, वस्तुतो जैनमते सर्वे आत्मानो मुक्ति गमिष्यन्तीति सम्भावनैव नास्ति कुतः सत्त्वोच्छेदभयं, तत्र आत्मनो मुक्तिगमनस्वरूपयोग्यत्वं नात्मत्वेन किन्तु भव्यत्वेन, य एव भव्यो जीव: स एवापवृज्यते, भव्या अपि जीवा अनन्ता इति येषामेव भव्यानां सम्यग्ज्ञानादिसमवधानं तेषामेवापवर्गो नान्येषामिति न सर्वभव्योच्छेदभयमपीति ध्येयम्, मुक्तस्य पुनर्जन्मलक्षणमावत्तनमपि न सम्भवतीत्याह-न च जन्ममहादोषमिति महान् दोषो यत्र तन्महादोषम्-एवम्भूतं जन्म, न च न भवति, बन्धकारणस्यास्रवस्याभावादावरणकर्म मुद्गलानां विसकलितानामनन्तानां सद्भावेऽपि न बन्ध इत्याह-आनन्त्यात् तु न बध्यते इति // 29 // आनन्त्यस्य बन्धनेऽकिञ्चित्करत्वमेव निदर्शनावष्टम्भेन द्रढयतिनेन्धनानन्त्यतो वनिश्चीयते नावचीयते / तन्मात्रं वा तथाऽन्योऽन्यगतयः स्कन्धपुद्गलाः // 30 // नेन्धनानन्त्यत इति / इन्धनानन्त्यतः जगति-वह्निदहनस्वरूपयोग्यान्यनन्तानीन्धनानि काष्ठादीनीत्येवमिन्धनानन्त्यतः, वह्निः कतिपयकाष्ठादिदाह्योपजातोऽग्निः, न चीयते न पूर्वपरिमाणाधिकपरिणामो भवति, अवचोयते यावत्परिमाणकः समुत्पन्नस्ततो न्यूनपरिणामः, न नैव भवति, वा अथवा, तन्मात्रं नजोऽनुकर्षः यावन्मात्रं वह्निरुत्पन्न: तन्मात्रं तत्प्रमाणक एव निर्वाणं यावन्नावतिष्ठते किन्तु मध्ये तत्रेन्धनान्तरस्य प्रचुरस्याल्पस्य वा प्रक्षेपे तदनुगुणपरिमाणको भवति, इन्धनान्तरस्याप्रक्षेपे च क्षीण-क्षीणतरप्रमाणो भूत्वा खयमेवोपशाम्यति तथा अनेनैव प्रकारेण, स्कन्धपुद्गला अन्योऽन्यगतयः भवन्ति // 30 //