________________ 191 दिवाकरकृता किरणावलीकलिता एकोनविंशतितमी द्वात्रिंशिका / मुक्तिगमनायोग्यादभव्यजीवाद् भव्यस्य मुक्तिगमनयोग्यजीवस्य वैलक्षण्यमुपदर्शयति बुद्धयापोहृतमःसत्त्वं जातु गव्ये न युज्यते / तीव्रमोहानुबन्धस्तु स्यात् कश्चित् कस्यचित् कचित् // 28 // बुद्धयेति / “बुद्धयापोहृतमः' इत्यस्य स्थाने "बुद्धयपोहृत्तमः" इति पाठो युक्तः, “गव्ये" इत्यस्य स्थाने "भव्ये" इति पाठः समीचीनः / भव्ये अनादिभव्यत्वपरिणामशालिनि जीवे, बुद्धधापोहत्तमःसत्त्वं बुद्धेः अहं भव्यो नवा. अहं मुक्तिगमनयोग्यो नवेत्यादि संशयात्मकबुद्धेः अपोहृत् प्रथमत एवोत्पादप्रतिरोधकारि यत्तमः ज्ञानावरणलक्षणकांशस्वरूपान्धकारस्तस्य सत्त्वं सद्भावः, जातु कदाचिदपि, न युज्यते न सम्भवति, भव्यजीवस्यैवाहं भव्यो न वा अहं मुक्तिगमनयोग्यो न वेति संशयः संभवति, यस्य नैवंविधा बुद्धिः सोऽभव्य एवेत्यर्थः, कचित् दारादिविषये, कस्यचिद् भव्यजीवस्य, कश्चित् तोत्रमोहानुबन्धस्तु पुनः, स्याद् भवेदित्यर्थः // 28 // ___मनु मुक्त्यर्थ तदुपोयस्य सम्यग्ज्ञान-दशन-चारित्रस्वरूपस्य निरूपण न कर्तव्यम् मुक्तेरेवाकाम्यत्वात्, कालस्यानाद्यनन्तत्वेन यदा कदाचिदप्येकैकजीवस्य मुक्तत्वे सर्वेषामेव जीवानां क्रमेण मुक्तिप्राप्तौ प्रवृत्ति-निवृत्तिलक्षणस्य जगतो व्यवहारस्य व्यवहर्तृणामभावे सर्वथोच्छेद एव प्रसज्येतेत्येतद्भयान्न मुक्तिः काम्येति तदुपायगवेषणं न कर्तव्यम्, आवरणकर्मपुद्गलानां चामन्त्येन केषाञ्चिजीवप्रदेशेभ्यः सर्वथाऽपासारणेऽप्यन्येषां पुनर्जीवप्रदेशैः समं परस्परानुविद्धत्वसम्भवेन मुक्तस्यापि कर्मक्लेशादिदोषाघ्रातजन्मसम्भवो वारयितुमशक्य एवेत्यत आह__सत्त्वोच्छेदभयं तुल्यमनुक्तेऽप्यपवर्गतः।। न च जन्ममहादोषमानन्त्यात् तु न बध्यते // 29 // सत्त्वेति / सत्त्वोच्छेदभयमिति सत्त्वानां जीवानामशेषाणां मुक्तिप्राप्तितो जगति तदभावलक्षणोच्छेदस्य सम्भावितस्य भयमित्यर्थः, तुल्यं पर