________________ दिवाकर कृता किरणावलोकलिता एकोनविंशतितमी द्वात्रिंशिका / 491 नूनं नव्ययुक्तिसूत्रणसूत्रधारेण भवता समयेऽनुदाहृता अपि पदार्था कथं न प्रतिपाद्यन्ते इत्यत आह प्रकाशवदनिष्टं स्यात् साध्ये नार्थस्तु नः श्रमः / जीव-पुद्गलयोरेव परिशुद्ध परिग्रहः // 26 // प्रकाशवदिति / प्रकाशवद् लोकैराकाशे निर्मले स्वच्छे प्रकाशोऽयमिति व्यवह्रियते किन्तु प्रकाश उद्भूतानभिभूतरूपवत्तेजोविशेष एव तस्योपचार एवाकाशे, वस्तुतस्तस्य तत्राभ्युपगमे पौद्गलिकत्वमनिष्टमापद्यत, तथा साध्ये साधयितुं शक्ये समयानुगदिष्टे वस्तुनि, अनिष्टं स्यात् यदि सप्रयोजनः स पदार्थो भवेत् तदा युज्येताऽपि तत्साधनं, किन्तु तदर्थोऽन्यत एव भावयितुं शक्य इति नार्थः अन्यतोऽलभ्यस्तदर्थो नास्ति येन तदर्थ समयानुपदिष्टोऽपि युक्तियुक्तः स्यात्, तु पुनः तथा प्रसाधने, नः अस्माकम् , श्रमः श्रम एव केवलम्, अतो नैगमा दिनयावलोकिता भपि केचन पदार्था नात्र निश्चयनये भाविताः, धर्माधर्माकाशानामपि नि* वयनये परिग्रहोऽपरिशुद्ध एव किन्तु जीव-पुद्गलयोरेव परिग्रहः परिशुद्धः इत्यर्थः // 26 // ज्ञानावरणादिघातिकर्मचतुष्टयरहितानां साद्यनन्तसर्वविषयोपयोगभाजां जिनानामिन्द्रियरहितत्वमुपदर्शयति इन्द्रियाण्यात्मलिङ्गानि त्वगादिनियमः पुनः / निकामविषया व्याला जिनाश्चैवमतीन्द्रियाः // 27 // इन्द्रियाणीति / इन्द्रियाण्यात्मलिङ्गानि इन्द्रस्यात्मनः सम्बन्धीनि इन्द्रियाणि, अत एवात्मनो ज्ञापकन्वेनात्मलिङ्गानि आत्म'चह्नानि इन्द्रियात्मकलिङ्गेनाऽऽ-माऽनुमीयते, एकेन्द्रिय-द्वोन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजीवेत्येवं विभजनाय, पुनः, त्वगादिनियमः स्पर्शनेन्द्रियादिनियमः, तेषां स्पर्श-रूपरस-गन्ध-शब्दलक्षणाः, निकामविषया व्यालाः सर्पा इव सम्बन्धमात्रेण जीवान् मूच्छर्यन्तीति, जिनाश्च राग-द्वेषजेतारः केवलिनः पुनः, एवम् इन्द्रियविषयकृतमोहरहितत्वेन, अतीन्द्रिया: इन्द्रियातिक्रान्ता इत्यर्थः // 27 //